अयोध्यायां संघस्य स्वयंसेवक श्रीरामार्चनमेन करिष्यति प्रभु रामललाभगवतः स्तुतिः
-- सरयू वंदनायाः उपरान्तं बलिदानिभ्यः कारसेवकेभ्यः श्रद्धांजलिः -- राम पथि पदं मेलयतो गणवेशधारी घोषदलस्य भविष्यति प्रदर्शनम् -- हनुमानगढ़्यां स्तुतिं कृत्वा प्राप्स्यन्ति नव्यं-भव्यं श्री राम जन्मभूमि मन्दिरम् अयोध्या, 18 फ़रवरीमासः (हि.स.)।
कारसेवक पुरम में घोष वादन की फ़ाइल फोटो


-- सरयू वंदनायाः उपरान्तं बलिदानिभ्यः कारसेवकेभ्यः श्रद्धांजलिः

-- राम पथि पदं मेलयतो गणवेशधारी घोषदलस्य भविष्यति प्रदर्शनम्

-- हनुमानगढ़्यां स्तुतिं कृत्वा प्राप्स्यन्ति नव्यं-भव्यं श्री राम जन्मभूमि मन्दिरम्

अयोध्या, 18 फ़रवरीमासः (हि.स.)।

राष्ट्रीय स्वयंसेवक संघस्य स्वयंसेवकाः विक्रमसंवत् २०८२ फाल्गुनशुक्लपक्षपञ्चम्यां, अर्थात् २२ फरवरी दिवसे, श्रीराम जन्मभूमि मन्दिर मध्ये घोषवादनेन प्रभोः श्रीरामललायाः स्तुतिं करिष्यन्ति। अस्य कार्यक्रमस्य नाम “श्रीरामार्चनम्” इति निर्दिष्टम् अस्ति।

मासानां परिश्रमेण विशेषतया प्रशिक्षितस्य घोषदलस्य शतं वादकाः अयोध्या नगरे मनोहरं घोषवादनं पथसञ्चलनं च करिष्यन्ति। श्रीराम जन्मभूमि तीर्थ क्षेत्र संवादकेन्द्रेण ज्ञापितं यत् वेणु वंशी, श्रृंग स्वरद तुर्य नागाङ्ग गौमुख तथा शंख बिगुल इत्यादिषु विविधरागानुसारं भिन्नावसरेषु उपयुक्तानां रचनानां वादनं भविष्यति। काचित् रचनाः स्थिरावस्थायां, अन्याः पथसञ्चलनसमये वादिताः भविष्यन्ति। एकरूपवेषे, समानलयस्वरयुक्ताः शताधिकाः स्वयंसेवकाः यदा रामपथे पदेन पदं संयोज्य गमिष्यन्ति, तदा अद्भुतं दृश्यं प्रस्तूयते।

विवरणानुसारं दिल्लीप्रान्तस्य अस्य दलस्य वादकानां संख्या शतम् अस्ति। पञ्चविंशतिः स्वयंसेवकपरिवाराः अपि कार्यक्रमे सहभागी भविष्यन्ति। व्यवस्थासम्बद्धाः केचन कार्यकर्तारः अपि सह गमिष्यन्ति। संघपरम्परानुसारं प्रत्येकः स्वयंसेवकः स्वव्ययं स्वयं वहति। पूर्वदिनेषु आयोजनसम्बद्धाः वरिष्ठकार्यकर्तारः अयोध्यां गत्वा महासचिवेन चम्पतरायेन सह मिलित्वा आवश्यकानुमतिं स्वीकृतवन्तः।

नियतकार्यक्रमानुसारं स्वयंसेवकाः २१ फरवरी प्रातःकाले अयोध्याधाम आगमिष्यन्ति। पुण्यसरयूतीरे २२ फरवरी दिनाङ्के अपराह्णे ३ वादने १५ निमेषे घोषवादनं प्रारभ्यते। अनन्तरं पथसञ्चलनपूर्वकं वादनं कुर्वन्तः स्वयंसेवकाः लता मंगेशकर चौक स्थलं प्राप्स्यन्ति। अत्र स्वरसम्राज्ञी लता मंगेशकर तथा बलिदानीकारसेवकानां प्रति ३:३५ तः ३:५५ पर्यन्तं रागमयी श्रद्धाञ्जलिः अर्पिता भविष्यति।

तत्पश्चात् रामपथमार्गेण स्वयंसेवकाः ४:२० वादने हनुमानगढ़ी प्राप्स्यन्ति। ४:३५ पर्यन्तं घोषे स्तुतिवादनं भविष्यति। ५:१५ वादने पुनः श्रीरामजन्मभूमिमन्दिरं प्राप्य ५:१५ तः ६:१५ पर्यन्तं प्रदक्षिणां स्थिरवादनं च करिष्यन्ति। अनन्तरं सर्वे सायंआरत्यां सम्मिलिताः भूत्वा प्रभोः श्रीरामललायाः दर्शनं करिष्यन्ति।

हिन्दुस्थान समाचार