Enter your Email Address to subscribe to our newsletters

जौनपुरम्,18 फरवरीमासः (हि.स.)। उत्तरप्रदेशस्य जौनपुरजनपदे उत्तरप्रदेशमाध्यमिकशिक्षापरिषदःमाध्यमिक-उच्चतयमाध्यमिकपरीक्षाः बुधवासरात् प्रारब्धाः। अस्य विषये सूचनां दत्त्वा जिलाविद्यालयनिरीक्षकः राकेशकुमारः अवदत् यत् अस्मिन् वर्षे जनपदे समग्रतः १,५४,१२२ परीक्षार्थिनः परीक्षायां सम्मिलन्ति, येषां कृते २०६ परीक्षा केन्द्राणि निर्धारितानि सन्ति। परीक्षा द्वयोः पाल्योः आयोज्यते।
प्रशासननेन अनुकरणविहीनां पारदर्शिनीं च परीक्षां सुनिश्चितुं सर्वाः सिद्धयः पूर्वमेव सम्पन्नाः। प्रश्नपत्राणि चतुस्तररुद्धव्यवस्थायां सुरक्षितानि स्थापितानि सन्ति। सर्वेषु परीक्षा केन्द्रेषु सीसीटीवी कैमरा उपकरणानि तथा ध्वनिलेखकयन्त्राणि स्थापितानि सन्ति, ये जनपदमुख्यालयस्थितनियन्त्रणकक्षेण सह संयोजितानि सन्ति। एनआईसी संस्थायाः माध्यमेन अपि परीक्षा केन्द्राणां जालस्थया पर्यवेक्षणं क्रियते, येन कस्यापि अनियमिततायाः विषये तत्क्षणमेव कार्यवाही कर्तुं शक्यते।
जनपदस्य ६६७ माध्यमिकविद्यालयानां छात्राः छात्र्यश्च परीक्षायां भागं गृह्णन्ति। एतेषु ३३ राजकीयविद्यालयाः, १५० अशासकीयसहायताप्राप्तविद्यालयाः, तथा ४८४ वित्तविहीनमान्यताप्राप्तविद्यालयाः अन्तर्भवन्ति। हाईस्कूल् परीक्षायां ७७,०४२ तथा इंटरमीडिएट् परीक्षायां ७७,०८० परीक्षार्थिनः पंजीकृताः सन्ति।
सुव्यवस्थितसञ्चालनार्थं जनपदः षट्सु जोनेषु तथा २२ सेक्टरस्थलेषु विभक्तः। प्रत्येकस्मिन् जोने जोनलमजिस्ट्रेट्, प्रत्येकस्मिन् सेक्टरे सेक्टरमजिस्ट्रेट्, तथा सर्वेषु २०६ केन्द्रेषु स्थिरमजिस्ट्रेट् नियुक्ताः सन्ति। षट् सचलदस्ताः अपि गठिताः सन्ति। २४ परीक्षा केन्द्राणि संवेदनशीलानि, १३ केन्द्राणि अति संवेदनशीलानि च घोषितानि, विशेषपर्यवेक्षणस्य निर्देशाः दत्ताः।
उत्तरपुस्तिकानां संकलनार्थं राजकीयबालिकाइंटरकॉलेज केन्द्रं निर्धारितम्। प्रश्नपत्राणां सुरक्षितभण्डारणार्थं राजा डीएम शिया इंटरकॉलेज् इत्यत्र सुदृढकक्षः स्थापितः।
परीक्षार्थिनां समस्यासमाधानार्थं सहायककेन्द्रम् स्थापितम्। विषयविशेषज्ञाः नियुक्ताः सन्ति, ये छात्रान् मार्गदर्शनं दास्यन्ति। परीक्षासम्बद्धकस्य कस्यापि समस्यायाः निवारणार्थं ९४५४४७७३९ तथा ७००७११५७२० इति दूरवाणीसंख्ये प्रकाशिते स्तः।
हिन्दुस्थान समाचार