Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 18 फ़रवरीमासः (हि.स.)।
केंद्रशासनस्य महत्वाकाङ्क्षिण्याः “राष्ट्रियायाः वयोश्री योजनायाः” अन्तर्गतं बुधवासरे राजगढ़ विकासखण्डमुख्यालयस्य सभागारे एकदिवसीयः परीक्षणपञ्जीकरणशिविरः आयोजितः। अस्य शिविरस्य उद्देश्यः आर्थिकदृष्ट्या दुर्बलान् वरिष्ठनागरिकान् सहायकयन्त्रैः सुसज्जीकृत्य तेषां जीवनं सुलभं कर्तुम् आसीत्।
शिविरे ८३ ग्रामपञ्चायतिभ्यः बहुसंख्यकाः वृद्धजनाः उपस्थिताः। समग्रतः २७२ आवश्यकता सम्पन्नाः जनाः पञ्जीकरणं कृत्वा योजनालाभार्थं आवेदनं कृतवन्तः। विशेषज्ञदलस्य चिकित्सकैः उपस्थितानां वृद्धजनानां स्वास्थ्यपरीक्षणं कृत्वा तेषां शारीरिकावश्यकतानुसारं यन्त्राणि चिन्हितानि।
पात्रलाभार्थिभ्यः आगामीचरणे निःशुल्करूपेण व्हीलचेयरयानम्, श्रवणयन्त्रं, दृष्टिदर्पणः, छड़ी, सर्वाइकल् कॉलर्, व्हीलचेयर् कमोड्, नी ब्रेस् इत्यादयः सहायकयन्त्राणि प्रदास्यन्ते।
शिविरे खण्डविकासाधिकारी वीरेंद्र प्रताप वर्मा सहिताः अन्ये अधिकारीणः तथा भारतीय कृत्रिम अंग निर्माण निगमस्य चिकित्सकीयदलम् अपि उपस्थितम् आसीत्।
---------------
हिन्दुस्थान समाचार