Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १८ फरवरीमासः (हि.स.)।भारतस्य इतिहासे १९७१–युद्धकाले यस्मिन् स्थले पाकिस्तानीय–पनडुब्बी गाजी निमज्जिता आसीत्, तस्मिन्नेव ऐतिहासिके तीरे पुनः इतिहासस्य निनादः अनुभूतः। विशाखापत्तनम-स्थिते तस्मिन् तटे बुधवासरे भारतीय नौसेनया स्वस्य समुद्री–शक्तिः, व्यावसायिकता तथा वैश्विक–सहभागिता प्रभावशालिरूपेण प्रदर्शिता।
भारतीय–सशस्त्र–बलानां सर्वोच्च–सेनापतिः द्रौपदी मुर्मु राष्ट्रपतिः अन्ताराष्ट्रिय–नौसैन्य–समीक्षां (International Fleet Review) अवलोक्य विश्वासं व्यक्तवती यत् अस्यां समिक्षायां सम्मिलिताः सर्वाः नौसेनाः संयुक्तरूपेण समुद्रान् विश्वस्य विकासस्य, समृद्धेः तथा सर्वकल्याणस्य मार्गरूपेण अग्रे नेष्यन्ति।
राष्ट्रपतिः अवदत् यत् अन्ताराष्ट्रिय–नौसैन्य–समिक्षा राष्ट्राणां मध्ये एकता, परस्पर–विश्वासः तथा सम्मानम् इत्येताः समुद्री–परम्पराः दर्शयति। भारतस्य समुद्रैः सह सम्बन्धः गहनः चिरस्थायी च अस्ति। शताब्द्यः यावत् एते समुद्राः भारतस्य वाणिज्यस्य, सम्पर्कस्य तथा सांस्कृतिक–विनिमयस्य मार्गा: आसन्। ‘वसुधैव कुटुम्बकम्’—अर्थात् संपूर्णा पृथिवी एकं कुटुम्बम्—इति भारतस्य दृष्टिकोणं समुद्री–क्षेत्रे अपि अन्ताराष्ट्रिय–सम्बन्धेषु प्रतिबिम्बितम् इति सा अवदत्। राष्ट्रपतिः मित्र–देशानां नौसैनिक–अधिकारिणः नाविकान् च अभिनन्द्य अवदत् यत् ते स्वसेवाभिः स्व–स्वदेशानां उत्तमान् परम्परा: प्रदर्शयन्ति।
नौसेनायाः नाटक: विवेकः मधवालः अवदत् यत् एषा भारतदेशे आयोजिता तृतीया अन्तर्राष्ट्रिय–नौसैन्य–समीक्षा अस्ति। अस्यां समीक्षायां ७०–अधिकाः समुद्री–सेना: भागं गृहीतवन्तः, येषु १८ अन्य–देशानां १९ पोता:, भारतीय–तटरक्षक–बलस्य पोता: तथा शिपिंग–कॉर्पोरेशन–ऑफ–इण्डिया–संस्थायाः पोता: अपि सम्मिलिता:। अस्मिन् वर्षे प्रथमवारं भारतस्य स्वदेशी विमानवाहक–पोतः आईएनएस विक्रांत: अस्यां समीक्षायां सहभागी अभवत्। चल–स्तम्भे (मोबाइल–कॉलम) स्वदेशी कलवरी–वर्गीय–पनडुब्बी अपि दृष्टा। भारतदेशे एव रूपित–निर्मिताश्च विनाशक–पोताः (डिस्ट्रॉयर), फ्रिगेट्, ए.एस.डब्ल्यू.–शैलो–वाटर–क्राफ्ट्, सर्वे–वेसल् तथा डाइविङ्–सपोर्ट्–वेसल् इत्यादयः अत्र प्रदर्शिताः।
तेन एव सूचितं यत् फ्लाइ–पास्ट् माध्यमेन नौसेनया वायु–शक्तेः अपि प्रदर्शनं कृतम्, यस्मिन् युद्ध–विमानानि, प्रशिक्षण–विमानानि, हेलिकॉप्टरविमानानि तथा दीर्घ–परिसर–समुद्री–निरीक्षण-विमानानि सम्मिलितानि।
नायक: मधवालः अवदत् यत् विशाखापत्तनम-नगरे त्रयः महत्त्वपूर्णाः कार्यक्रमाः— अन्ताराष्ट्रिय–नौसैन्य–समीक्षा, बहुराष्ट्रीय–नौसैनिक–अभ्यासः मिलनम्, तथा नौसेना–प्रमुखाणां सम्मेलनम्—एकत्र एते कार्यक्रमा: आयोज्यमाना: सन्ति। एतेषु कार्यक्रमेषु ७२ देशानां प्रायः ७२ प्रतिनिधिमण्डलानि सहभागं कुर्वन्ति, येन भारतः ऐतिहासिक–समुद्री–सहयोगस्य महत्त्वपूर्णं केन्द्रं भवति।
हिन्दुस्थान समाचार / Dheeraj Maithani