Enter your Email Address to subscribe to our newsletters






चम्पावतनगरम्, १८ फरवरीमासः (हि.स.)। टनकपुरे केन्द्रीय–जल–आयोग–कार्यालयस्य समीपे स्थिते क्रीडाङ्गणे बुधवासरे सांस्कृतिक–ऊर्जया परिपूर्णं दृश्यं दृष्टम्, यदा सप्तदिवसीयस्य “चम्पावत–सरस–कॉर्बेट–महोत्सव–२०२६” इत्यस्य शुभारम्भः अभवत्। अस्य कार्यक्रमस्य उद्घाटनं उत्तराखण्ड–प्रदेशस्य मुख्यमन्त्री पुष्करसिंह: धामी देहरादूनात् आभासी–माध्यमेन कृतवान्। उद्घाटनानन्तरं क्षेत्रे लोककलानां, स्थानीय–उत्पादानां तथा पर्यटन–गतिविधीनां मनोहरः संगमः दृष्टः।
पारम्परिक–स्वागतं, दीप–प्रज्वलनं तथा लोक–सांस्कृतिक–प्रस्तुतिभिः सह समारोहस्य प्रारम्भः कृतः। अस्य महोत्सवस्य मुख्योद्देश्यं चम्पावतस्य सांस्कृतिक–परम्परां, लोककलाः तथा पर्यटन–सम्भावनाः व्यापकतया परिचितकरणम् इति अस्ति। उद्घाटन–सत्रे जनप्रतिनिधीनां तथा प्रशासनिक–अधिकारिणां उपस्थितिः आसीत्।
महोत्सवे उत्तरप्रदेशः, हिमाचलप्रदेशः, मध्यप्रदेशः इत्यादीन् समाविश्य दशाधिक–राज्येभ्यः आगतैः प्रतिभागिभिः सहभागिता कृता। राज्यस्य विभिन्न–जनपदेभ्यः आगताः ३७ अधिकाः स्वयं–सहायता–समूहाः तथा स्थानीय–उद्यमिनः स्व स्व–उत्पादानां विक्रय–स्थलानि स्थापितवन्तः। पुस्तक–मेलायां १५ अधिक–प्रकाशकानां सहभागिता आसीत्, यत्र बनारसी–शाटिकाः, कश्मीरी–हस्तशिल्प–वस्तूनि तथा पारम्परिक–हस्तनिर्मित–उत्पादाः आगन्तुकानां विशेष–आकर्षण–केन्द्रं अभवन्।
कार्यक्रमस्य समये “मुख्यमन्त्री–योग–सखी–दीदी–अभियानस्य” अपि शुभारम्भः कृतः, यस्य उद्देश्यं महिलाः योगेन संयोज्य स्वास्थ्य–संवर्धनं तथा आत्मनिर्भरता–विकासं प्रोत्साहितुं अस्ति। विद्यालयीय–विद्यार्थिभिः छोलिया–नृत्येन सहितं विविधाः सांस्कृतिक–प्रस्तुतयः प्रदर्शिताः, येन दर्शकाः अत्यन्तं मोहिताः। तदेव न, नशामुक्ति–तथा क्षयरोग–उन्मूलन–सम्बद्धाः जनजागरण–कार्यक्रमाः अपि आयोजिताः।
प्रथमदिने पतङ्ग–उड्डयन–प्रतियोगिता तथा रङ्गोली–प्रतियोगितया उत्सवे विशेष–वर्णवैभवं समाविष्टम्। पुस्तक–मेलापक:, छायाचित्र–प्रदर्शिनी, पारम्परिक–वाद्य–यन्त्राणां तथा चम्पावतस्य दुर्लभ–पात्राणां प्रदर्शिनी अपि जनानां आकर्षणस्य केन्द्रं बभूव।
साहसिक–पर्यटनस्य प्रोत्साहनार्थं चूका–क्षेत्रे शिबिर–वासः (कैंपिङ्ग्), उचोलीगोंठे परामोटरिङ्ग्, डण्डाककई–क्षेत्रे पराग्लाइडिङ्ग् तथा नन्धौर वन्यजीव-अभयारण्य–मध्ये वन्यजीव–सफारी अपि आयोजिताः।
मुख्यमन्त्री पुष्करसिंह: धामी अवदत् यत् अयं महोत्सवः केवलं सांस्कृतिक–कार्यक्रमः न, अपि तु स्थानीय–अर्थव्यवस्थायाः गतिं दातुं तथा यूनां कृते नव–अवसरान् सर्जितुं महत्त्वपूर्णं साधनम् अस्ति। सः काली–कुमाऊँ–होलीं तथा क्षेत्रीय–परम्पराः प्रदेशस्य विशिष्ट–परिचय–रूपेण वर्णितवान्। महोत्सवे जनप्रतिनिधीनां, प्रशासनिक–अधिकारिणां तथा बहुसंख्यक–स्थानीय–नागरिकाणां सक्रिय–सहभागितया सम्पूर्णम् आयोजनं उत्सवमय–वातावरणे परिणतः अभवत्।
हिन्दुस्थान समाचार / अंशु गुप्ता