Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 19 फ़रवरीमासः (हि.स.)।
इमैनुएल मैक्रों विश्वे कृत्रिमबुद्धेः तीव्रविकासं नवान्वेषणं च उत्तरदायित्वपूर्णं मानवकेन्द्रितं च कर्तुं आवश्यकमिति उक्तवान्। आगामिषु कालेषु अस्मिन् क्षेत्रे रणनीतिकस्पर्धायां राष्ट्राणां स्वातन्त्र्यं रणनीतिकस्वायत्तता च सुनिश्चितव्या इति तेन प्रतिपादितम्।
गुरौ दिवसे एआई शिखरसम्मेलनस्य उद्घाटनसमारोहे भारतस्य डिजिटलपरिवर्तनस्य प्रशंसां कृत्वा सः यूरोपस्य फ्रांसदेशस्य च भारतसहयोगेन कृत्रिमबुद्धेः वैश्विककल्याणाय उपयोगस्य दृष्टिं प्रस्तुतवान्। एआई तथा डिजिटलदुरुपयोगविरुद्धं बालानां संरक्षणविषयेऽपि चिन्तां प्रकट्य सर्वेषां राष्ट्राणां संयुक्तप्रयत्नस्य आवश्यकता इति अवदत्। नवान्वेषणं उत्तरदायित्वेन सह मानवतया संयोजनीयम् इति अपि सः उक्तवान्। भाषणस्य अन्ते सः “जय हो” इति वाक्येन समापितवान्।
भारत मण्डपम् इत्यत्र आयोजिते एआई शिखरसम्मेलने मैक्रों महोदयेन उक्तं यत् कृत्रिमबुद्धिः विश्वं परिवर्तयति। अतः अस्माभिः एकतां गन्तव्यम् अन्यथा वयं पश्चात् पतिष्यामः। पूर्वं स्पर्धां विना पराजयः इति उक्तम् आसीत्, अद्य तु संयोजनं विना पश्चात्पतनम् अवश्यम्भावी इति तेन निर्दिष्टम्।
सः अवदत् यत् कस्यापि राष्ट्रस्य कम्पन्याः वा अन्यं राष्ट्रं केवलं विपणिरूपेण दत्तांशस्रोतोरूपेण वा दृष्टुं अधिकारो नास्ति। कृत्रिमबुद्धिः उत्पादकतावृद्धये श्रमबाजारस्य च हिताय अत्यन्तं महत्त्वपूर्णा अस्ति। अतः एआई सर्वेभ्यः सुलभा भवेत्। सा भाषिकवैविध्ययुक्ता अपि भवेत् येन सर्वे जनाः तस्य उपयोगं कर्तुं शक्नुवन्ति। भारत इम्पैक्ट् सम्मिट् अस्यैव दिशायाः प्रयत्नं करोति।
भाषणस्य आरम्भे मैक्रों महोदयेन भारतस्य तकनीकीसमावेशनप्रयत्नानां प्रशंसा कृता। एतत् परिवर्तनं सभ्यतायाः कथाम् आख्यातीति सः उक्तवान्। भारतदेशेन डिजिटलपरिचयपत्रं, डिजिटलस्वास्थ्यपरिचयपत्रं, तथा विशालं डिजिटलभुगतानप्रणाली च निर्मिता, येन लक्षशः लेनदेनानि सम्पन्नानि भवन्ति। कृत्रिमबुद्धिक्षेत्रं रणनीतिकक्षेत्ररूपेण उदेति इति तेन उक्तम्। फ्रांसभारतयोर् यूरोपसहितं एआईस्वातन्त्र्ये बलं दत्तम्, आदर्शमॉडेलाः आधारसंरचना संतुलनं च अत्यावश्यकम् इति च स्वीकृतम्।
सः पुनः अवदत् यत् तनाववृद्धिकाले अस्माकं सर्वे डिजिटलोपकरणानि समावेशीदृष्टिकोनं प्रति निर्देशनीयानि सन्ति। भारतदेशे सुदृढतां प्राप्तुं, आफ्रिकाखण्डे अपि सुदृढतां स्थापयितुं च आवश्यकम्। विभाजनस्य स्थाने सेतुनिर्माणं, विनाशस्य स्थाने निर्माणं, ग्रहणस्य स्थाने साझाकरणं कर्तव्यम्। G7 अध्यक्षताकाले फ्रांसदेशः एतां दृष्टिं प्रोत्साहयितुं संकल्पितः अस्ति। भारतदेशः अपि BRICS अध्यक्षतायां समानप्रयत्नं करिष्यति इति तेन अभिहितम्। कश्चन देशः केवलं विपणिरूपेण विदेशीसंस्थाभ्यः आदर्शविक्रयाय नागरिकदत्तांशसंग्रहाय च बाध्यः न भवेत्।
तकनीकयुगे बालमानसपरिणामान् प्रति चिन्तां व्यक्त्वा सः अवदत् यत् जी७ प्राथमिकतासु एकं लक्ष्यं एआई डिजिटलदुरुपयोगविरुद्धं बालसंरक्षणम् अपि भविष्यति। यत् वस्तु वास्तविकजगति विधिनिषिद्धम् अस्ति तत् ऑनलाइनरूपेण बालानां समक्षं न प्रस्तुतव्यम्। मञ्चाः, शासनानि, नियामकाः च मिलित्वा अन्तर्जालं सामाजिकमाध्यमानि च सुरक्षितस्थानरूपेण कर्तुं प्रयतन्ताम्। फ्रांसदेशे पञ्चदशवर्षात् न्यूनवयस्कबालानां सामाजिकजालमाध्यमेषु निषेधप्रक्रिया आरब्धा अस्ति। अस्मिन् मार्गे यूनान्, स्पेनादयः बहवः यूरोपीयराष्ट्राः अपि संलग्नाः सन्ति।
अस्यां पहिलायां भारतस्य सहभागितां प्रति आशां व्यक्त्वा सः अवदत् यत् नरेंद्र मोदी अपि अस्मिन् उपक्रमे सम्मिलिष्यन्ति। एतत् अत्युत्तमं समाचारः यत् भारतदेशः बालकिशोराणां संरक्षणाय एतादृशदृष्टिकोणे सहभागी भविष्यति। अस्माकं युवानागरिकाः सुरक्षिताः स्युः इति सुनिश्चितुं वयं सर्वाणि आवश्यककार्याणि कर्तुं सिद्धाः स्मः। अस्य दृष्टिकोणस्य सिद्धये सर्वैः इच्छुकसहभागिभिः सह संयो
जनम् आवश्यकम्।
---------------
हिन्दुस्थान समाचार