Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 19 फरवरीमासः (हि.स.)।
भारतस्य एआई शिखरसम्मेलनस्य अवसरे गुरौ दिवसे ‘नई दिल्ली फ्रंटियर एआई इम्पैक्ट प्रतिबद्धताः’ इति घोषणाः कृताः। एतासां प्रतिबद्धतानां उद्देश्यः कृत्रिमबुद्धिं समावेशिनीं विकासोन्मुखीं वैश्विकरूपेण प्रासंगिकां च कर्तुम् अस्ति।
दिल्लीस्थिते भारतमण्डपम् इत्यत्र प्रवर्तमाने ‘इंडिया एआई इम्पैक्ट समिट् २०२६’ इत्यस्य अवसरॆ केन्द्रीयरेलसूचनाप्रसारणइलेक्ट्रॉनिक्ससूचनाप्रौद्योगिकीमन्त्री अश्विनी वैष्णव विश्वस्य राष्ट्राणां प्रमुखान् तथा महत्तमप्रौद्योगिकीसंस्थानां कार्यकारीअधिकारिणः समक्षम् एतस्य घोषणां कृतवान्।
एतां प्रतिबद्धतां साझीकुर्वन् कार्यक्रमे नरेंद्र मोदी अपि उपस्थितः आसीत्। तेन सह सुंदर पिचाई, सैम अल्टमैन, एलेक्जेंडर वांग, डारियो अमोदेई च वैश्विकप्रौद्योगिकीक्षेत्रस्य प्रमुखाः अपि सहभागी अभवन्।
अश्विनीवैष्णवेन उक्तं यत् भारत एआई इम्पैक्ट समिट् इत्यस्य सफलतायाः प्रमाणम् एताः ‘नई दिल्ली फ्रंटियर एआई इम्पैक्ट प्रतिबद्धताः’ सन्ति। अस्याः अन्तर्गतं द्वौ मुख्यलक्ष्यौ निर्धारितौ स्तः। प्रथमं दत्तांशस्य माध्यमेन रोजगारार्थम् आर्थिकपरिवर्तनार्थं च प्रमाणाधारितनीतिनिर्माणम्। द्वितीयं कृत्रिमबुद्धिप्रणालीनां बहुभाषिकं सांस्कृतिकदृष्ट्या सुदृढं च निर्माणम्। एषा पहल विशेषतः ‘ग्लोबल साउथ’ राष्ट्राणां कृते एआई समावेशिनी प्रासंगिका च भवेत् इति भारतस्य नेतृत्वं दर्शयति।
उल्लेखनीयम् यत् सम्मेलनस्य तृतीये दिने मन्त्री भारतस्य एआई शासनदृष्टेः अनावरणं कृतवान्। तत्र कार्यसमूहानां प्रमुखलक्ष्येषु चर्चा अभवत्, येन वैश्विकएआई प्राथमिकतासु सहयोगात्मककार्याय मञ्चः सिद्धः। उत्तरदायिनवाचाराय भारतस्य दृष्टिः वैश्विकएआईयात्रायाः मार्गदर्शिका इति तेन प्रतिपादितम्।
तेन पूर्वं उक्तम् आसीत् यत् शिखरसम्मेलनस्य व्यापककार्यसूचिनिर्धारणे सप्त विषयगतकार्यसमूहानां निष्कर्षाः अतीव महत्त्वपूर्णाः भविष्यन्ति। एते परिणामाः भावी मार्गरेखायाः निर्देशनं करिष्यन्ति। सहयोगः नवाचारस्य प्रोत्साहनं तथा उत्तरदायिकृत्रिमबुद्धिपरिसंस्थायाः निर्माणदिशां अपि निश्चितुं सहायकरः भविष्यति।
सूचनाप्रौद्योगिकीसचिवः एस. कृष्णन अवदत् यत् कृत्रिमबुद्धेः विषये अस्माकं दृष्टिकोणः ‘सतर्कतापूर्णोत्साहः’ इति अस्ति। वयं तस्य जोखिमान् नियमांश्च प्रति सजगाः स्मः। जोखिमप्रबन्धनं वैश्विकमानदण्डानां च प्राथमिकतां दत्त्वा समावेशिशासनसंरचनां निर्मातुं प्रयतामहे, यस्मिन् ‘ग्लोबल साउथ’ सहित सर्वेषां राष्ट्राणां स्वरः सशक्तीकृतः भवेत्।
सप्त विषयगतचक्राणि वैश्विकविशेषज्ञतां साझादृष्टिकोणान् च क्रियात्मकसंरचनासु परिवर्तयितुं भारतस्य प्रयासं प्रदर्शयन्ति। तेषु मानवपूंजी सामाजिकसशक्तीकरणं सुरक्षितविश्वसनीयकृत्रिमबुद्धिनवाचारः दक्षताविज्ञानम्, एआईसंसाधनानां लोकतंत्रीकरणम्, आर्थिकविकासः सामाजिककल्याणं च अन्तर्भवन्ति।
एते कार्यसमूहाः शासनउद्योगशिक्षाक्षेत्रनागरिकसमाजविशेषज्ञान् एकत्र आनीय कृत्रिमबुद्धेः भविष्यस्य मार्गरेखां निर्मितवन्तः। मासानां परामर्शानन्तरम् अधुना एतानि लक्ष्याणि कार्यान्वयनदिशं प्रति नेतुं सज्जता क्रियते।
---------------
हिन्दुस्थान समाचार