Enter your Email Address to subscribe to our newsletters

गुवाहाटीनगरम्, १९ फरवरीमासः (हि.स.)। असमप्रदेशस्य मुख्यमन्त्री डॉ.हिमन्त-बिस्व-सरमा गत-रात्रौ पत्रकारै: सह संवादं कुर्वन् अवदत् यत् असमप्रदेशे निकटभविष्ये आयोज्यमाने राज्यसभानिर्वाचने त्रिषु अपि आसनेषु भारतीय-जनता-पक्षः (भाजपा) स्वीयान् प्रत्याशिनः स्थापयिष्यति। एतेषु त्रिषु राज्यसभा-आसनेषु प्रत्याशिनां चयनं प्रायः निश्चितं जातम् इति अपि तेन उक्तम्।
मुख्यमन्त्री पत्रकारै: सह संवादे पुनः अवदत् यत् भाजपापक्ष: त्रिषु अपि आसनेषु निर्वाचनस्पर्धायां अवतरिष्यति, तथा च त्रिषु अपि राज्यसभा-आसनेषु प्रत्याशिनः प्रायः निश्चिताः सन्ति। एतेषु सर्वेषु आसनेषु विजयस्य अपेक्षा अस्माकं वर्तते इति सः अवदत्।
राज्ये सत्ताधारी-संघटनस्य नेतृत्वं कुर्वन् भाजपा अद्य असम-विधानसभायां सुदृढस्थितौ वर्तते। तेन कारणेन संसदस्य उच्चसदनस्य निर्वाचनप्रक्रियायां पक्षाय संख्याबलस्य लाभः लभ्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता