ट्रंपस्य अध्यक्षतायां शांति समितेरुपवेशनम्अद्य , गाजा पुनर्वासे 20 सदस्याः देशे करिष्यन्ति चर्चाम्
वाशिंगटनम्, 19 फ़रवरीमासः (हि.स.)। अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड ट्रंप अध्यक्षतायां गुरुवासरे युद्धपीडितस्य गाजाप्रदेशस्य पुनर्वासार्थं गठितायाः शान्तिसमितेः बैठकः भविष्यति।वाशिंग्टननगरे स्थिते संयुक्त राज्य अमेरिका शांतिसंस्थाने अस्याः समितेः
गाजा को लेकर गठित शांति समिति की बैठक आज (फोटोः फाइल)


वाशिंगटनम्, 19 फ़रवरीमासः (हि.स.)।

अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड ट्रंप अध्यक्षतायां गुरुवासरे युद्धपीडितस्य गाजाप्रदेशस्य पुनर्वासार्थं गठितायाः शान्तिसमितेः बैठकः भविष्यति।वाशिंग्टननगरे स्थिते संयुक्त राज्य अमेरिका शांतिसंस्थाने अस्याः समितेः सभा भविष्यति। तत्र पाकिस्तानदेशस्य, मिस्रदेशस्य, जॉर्डनदेशस्य, इण्डोनेशियादेशस्य, कतारदेशस्य, सऊदीअरबदेशस्य, तुर्कीदेशस्य, संयुक्तअरबअमीरातदेशस्य च सहितं विंशतिसदस्यदेशानां प्रतिनिधयः सहभागित्वं करिष्यन्ति। गाजाक्षेत्रस्य पुनर्निर्माणार्थं सदस्यदेशैः पञ्च अरब् डॉलरपर्यन्तं वित्तीययोगदानं दातुं अपेक्ष्यते, यस्य घोषणा सभायां क्रियिष्यते।उल्लेखनीयम् अस्ति यत् इजराइलहमासयोः युद्धविरामानन्तरं राष्ट्रपतिः ट्रंप जनवरीमासे दावोसनगरे शान्तिमण्डलस्य गठनं कृतवान्। आदौ अस्य मण्डलस्य उद्देश्यः गाजाक्षेत्रे युद्धोत्तरस्थितेः पर्यवेक्षणम् आसीत्, परन्तु अनन्तरं तस्य कार्यक्षेत्रं विस्तारितं कृत्वा वैश्विकशान्तिः अपि तत्र समाविष्टा। अस्मिन् मण्डले अमेरिकराष्ट्रपतये अनिश्चितकालपर्यन्तं अध्यक्षपदे स्थितुं अनुमतिः प्रदत्ता अस्ति।

---------------

हिन्दुस्थान समाचार