Enter your Email Address to subscribe to our newsletters

बीकानेर-नगरम्, १९ फरवरीमास: (हि.स.)। नागपुरविश्वविद्यालय:, पर्यावरण-संरक्षण-गतिविधिः, बीकानेरशगरम् तकनीकीविश्वविद्यालय: तथा यूजीसी एवं मानवरचनाविश्वविद्यालयस्य सहयोगेन आयोजिते चतुर्थे पर्यावरण-युवा-संसद-कार्यक्रमे बीकानेर-तकनीकी-विश्वविद्यालयस्य आयोजक-स्वरूपे राजकीय-अभियांत्रिकी-महाविद्यालयस्य छात्रः शिवांशु-माथुरः, नागपुर-विधान-भवने आयोजितायां राष्ट्रीय-युवा-संसदे–२०२६ मध्ये बीटीयू-विश्वविद्यालयस्य प्रतिनिधित्वं कृत्वा राष्ट्रीय-स्तरे विश्वविद्यालयस्य गौरवं वर्धितवान्।
विदितमेव यत् एषः मंचः देशव्यापि-युवभ्यः लोकतान्त्रिक-प्रक्रियाणां, संसदीय-परम्पराणां तथा राष्ट्रीय-विषयाणां विषये सार्थक-संवादस्य अवसरं प्रददाति।जनसम्पर्क-अधिकारी विक्रम-राठौडः अवदत् यत् शिवांशु-माथुरेण एषा उपलब्धिः विश्वविद्यालयस्य पर्यावरण-संरक्षण-गतिविधेः समन्वयिकायाः डॉ.ममता-शर्मा-पारीकाया:, डॉ.गायत्री-शर्मण: तथा डॉ.करणजीत-कौर्याः निर्देशनं प्राप्य अर्जिता।
अस्मिन् अवसरे कुलगुरुः प्रो.अखिल-रंजन-गर्गः शिवांशु-माथुरं अभिनन्द्य अवदत् यत् राष्ट्रीय-युवा-संसदः युवषु नेतृत्व-क्षमतां, तार्किक-चिन्तनं, अभिव्यक्ति-कौशलं तथा संवैधानिक-मूल्येषु जागरूकतां विकसितुं प्रयोज्यते।
समन्वयिका डॉ.ममता-शर्मा-पारीकाऽवदत् यत् महाविद्यालय-स्तरीय-चक्रात्, विश्वविद्यालय-स्तरीय-चक्रात् तथा राज्य-स्तरीय-चक्रात् अनन्तरं शिवांशु-माथुरः राष्ट्रीय-स्तरीय-प्रतियोगितायै चयनितः। राष्ट्रीय-युवा-संसद–२०२६ आदेशात् प्रायः ५०,००० विद्यार्थिनः तथा ३०० विश्वविद्यालया: भागं गृहीतवन्त:; बहुस्तरीय-चयन-प्रक्रियाया: अनन्तरं केवलं २०० चयनित-प्रतिभागिनः एव राष्ट्रीय-मञ्चं प्राप्तवन्तः। तत्र तस्मै रसायन-उर्वरक-मन्त्रालयस्य कैबिनेट्-मन्त्रिणः भूमिकां निर्वहणाय अवसरः अपि प्रदत्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता