Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 19 फरवरीमासः (हि.स)।
माइक्रोसॉफ्टसंस्थापकः बिल् गेट्स् नूतनदिल्ली नगरे प्रवर्तमानस्य ‘इण्डिया एआई इम्पैक्ट समिट्’ नाम्नः सम्मेलनस्य मुख्यभाषणं न करिष्यति। गेट्स् प्रतिष्ठानेन उक्तं यत् सम्मेलनस्य प्राथमिकतासु ध्यानस्य स्थैर्यार्थं एषः निर्णयः कृतः। तस्य स्थाने अंकुर वोरा भाषणं करिष्यति।
बिल् एण्ड् मेलिण्डा गेट्स् प्रतिष्ठानस्य विज्ञप्तौ उक्तं यत् आफ्रिका भारत कार्यालययोः अध्यक्षः अंकुर वोरा सम्मेलनस्य प्रतिनिधित्वं करिष्यति तथा भाषणं दास्यति। अयं निर्णयः बहुविचारपूर्वकं कृतः यथा सम्मेलनस्य विशेषावश्यकतासु सम्यक् ध्यानं स्थाप्येत। प्रतिष्ठानं भारतदेशे स्वकार्येषु प्रतिबद्धम् अस्ति इति अपि उक्तम्।
उल्लेखनीयम् अस्ति यत् गेट्सस्य सम्मेलनात् निवृत्तेः कारणरूपेण अमेरिकादेशीयेन अपराधिना जेफ्री एप्स्टीन इत्यस्य सम्बन्धितेषु अतीव गोपनीयदस्तावेजेषु तस्य नामोक्तिः इति केचन वदन्ति। एप्स्टीन इत्यस्मिन् यौनापराधेषु तथा अवयस्कानां तस्कर्यां गम्भीराः आरोपाः आसन्।
---------------
हिन्दुस्थान समाचार