छत्रपति शिवाजी महाराजस्य जयंत्यां भाजपादलं तस्मै अनमत्
नवदिल्ली, 19 फ़रवरीमासः (हि.स.)। छत्रपति शिवाजी महाराजस्य अद्य जयंती उत्सवः अस्ति। अस्मिन् अवसरि भारतीयजनतापक्षेण तेषां स्मरणं कृत्वा नमनं कृतम्। भाजपाध्यक्षः नितिन नवीन ‘एक्स’ नाम सामाजिकमाध्यमे लिखितवान् यत् “हिन्दवीस्वराज्यस्य महान् प्रवर्त
शिवाजी


नवदिल्ली, 19 फ़रवरीमासः (हि.स.)।

छत्रपति शिवाजी महाराजस्य अद्य जयंती उत्सवः अस्ति। अस्मिन् अवसरि भारतीयजनतापक्षेण तेषां स्मरणं कृत्वा नमनं कृतम्।

भाजपाध्यक्षः नितिन नवीन ‘एक्स’ नाम सामाजिकमाध्यमे लिखितवान् यत् “हिन्दवीस्वराज्यस्य महान् प्रवर्तकः अदम्यपराक्रमस्य प्रतीकः छत्रपति शिवाजी महाराजः, तस्य जयंत्यवसरे तस्मै कोटिशः नमनम्। असाधारणसाहसं दूरदर्शिनं नेतृत्वं मातृभूमेः प्रति च अटूटसमर्पणम् एतानि गुणाः तम् राष्ट्रभक्तेः कर्तव्यस्य न्यायस्य च आदर्शरूपेण प्रतिष्ठापितवन्तः।”

सः अपि उक्तवान् यत् शिवाजीमहाराजस्य जीवनं अद्यापि पीढीः प्रति आत्मगौरवस्य संगठनस्य राष्ट्रनिर्माणस्य च प्रेरणां ददाति।

उल्लेखनीयम् यत् १६३० वर्षस्य फेब्रुवारी मासस्य १९ तमे दिने वर्तमानमहाराष्ट्रराज्यस्य पुणेजिलान्तर्गतस्य शिवनेरीदुर्गे मराठासेनापतेः शाहजीभोंसले इत्यस्य गृहे शिवाजीमहाराजस्य जन्म अभवत्। शाहजीभोंसले बीजापुरसल्तनतेः अधीनतायां पुणे सुपे च जागीरयोः अधिकारं धारयत्। तेषां माता जीजाबाई धर्मपरायणा आसीत्, यस्याः धार्मिकगुणानां तेषु गाढः प्रभावः आसीत्।

वीरमराठायोद्धा शिवाजीमहाराजेन हिन्दवीसाम्राज्यस्य स्थापना कृता। अनेकेषु युद्धेषु संग्रामं कृत्वा बहुवारं मुगलान् पराजित्य शतशः दुर्गाः विजिताः।

---------------

हिन्दुस्थान समाचार