Enter your Email Address to subscribe to our newsletters

रायपुरम् 19 फ़रवरीमासः (हि.स.)।
मुख्यमन्त्री विष्णुदेव सायोऽद्य गुरुवासरे सिविललाइनप्रदेशस्थिते स्वनिवासे विभागीयोपवेशनं करिष्यति। दिवसभरं सः मन्त्रालयसम्बद्धासु गोष्ठीषु आरक्षितकार्यक्रमेषु च संलग्नः भविष्यति। सायंकाले सः रायपुरनगरे आयोजिते ऐतिहासिकमहानाट्ये ‘जानता राजा’ नाम्नि सहभागित्वं करिष्यति।
शासकीयकार्यक्रमानुसारं मुख्यमन्त्री प्रातः ११वादनात् सायं ६:१५वादनपर्यन्तं स्वनिवासे विविधविभागीयबैठकासु नियतभेटकार्यक्रमेषु च व्यस्तः भविष्यति। ततः परं सः सांस्कृतिककार्यक्रमे भागं ग्रहीतुं प्रस्थितः भविष्यति।
हिन्दुस्थान समाचार