इतिहास-पृष्ठेषु २० फरवरीमास: - मिजोरमप्रदेश: अरुणाचल-प्रदेशश्च भारतस्य २३तमं २४तमं च राज्यं अभवताम्
भारतस्य संघीय-व्यवस्थायां वर्षं १९८७ विशेषमहत्त्वं धारयति। अस्मिन् वर्षे पूर्वोत्तर-प्रदेशयोः द्वयोः क्षेत्रयोः पूर्ण-राज्यत्वं प्रदत्तम्—मिजोरम भारतस्य २३मः, अरुणाचलप्रदेशः च २४तमं राज्यम् अभवत्। पूर्वं एते उभौ प्रदेशौ केन्द्र-शासित-प्रदेशरूपेण प
मिजोरम और अरुणाचल प्रदेश बना भारत का 23वां और 24वां राज्य


भारतस्य संघीय-व्यवस्थायां वर्षं १९८७ विशेषमहत्त्वं धारयति। अस्मिन् वर्षे पूर्वोत्तर-प्रदेशयोः द्वयोः क्षेत्रयोः पूर्ण-राज्यत्वं प्रदत्तम्—मिजोरम भारतस्य २३मः, अरुणाचलप्रदेशः च २४तमं राज्यम् अभवत्।

पूर्वं एते उभौ प्रदेशौ केन्द्र-शासित-प्रदेशरूपेण प्रशासितौ आस्ताम्। मिजोरम-प्रदेशे दीर्घकालीन-अस्थिरता तथा विद्रोहात्मक-गतिविधीनां शमनाय १९८६ तमे वर्षे मिजो-शान्ति-सन्धिः सम्पन्नः, यस्य फलस्वरूपेण अनन्तरवर्षे मिजोरम-प्रदेशस्य राज्यत्व-प्रदानं कृतम्। अरुणाचल-प्रदेशस्य भौगोलिक-रणनैतिक-महत्त्वं विचार्य तस्मै अपि पूर्ण-राज्यत्वं प्रदत्तम्। एतेन पूर्वोत्तर-क्षेत्रेण प्रशासनिक-संरचनायाः सुदृढीकरणं, राजनैतिक-प्रतिनिधित्वस्य विस्तारः च अभवत्। भारतस्य लोकतान्त्रिक-संघीय-रचनायां समावेशितायाः संवर्धनार्थं एषः निर्णयः मील-पाषाणरूपेण मन्यते।

महत्त्वं घटनाचक्रम्

१५४७ — एडवर्ड-षष्ठमस्य इंग्लैण्ड-राज्याभिषेकः।१८३५ — कलकत्ता-चिकित्सा-महाविद्यालयस्य उद्घाटनम्।१८६८ — ‘अमृत-बाजार-पत्रिका’ साप्ताहिक-प्रकाशनस्य आरम्भः।१९४७ — भारतस्य स्वातन्त्र्य-घोषणाविषये क्लेमेंट्-एट्ली-घोषणा।१९६२ — जॉन्-एच्-ग्लेनः अमेरिकायाः प्रथमः अन्तरिक्षयात्री।१९७६ — मुम्बई-हाई-तेल-क्षेत्रे वाणिज्य-उत्पादनस्य आरम्भः।१९८७ — मिजोरमः तथा अरुणाचल-प्रदेशः राज्यौ अभवतम्।१९९९ — प्रधानमन्त्री अटल-बिहारी-वाजपेयी-इत्यस्य ऐतिहासिका बस-यात्रा।१९९९ — दूरदर्शने क्रीडा-वाहिनी आरब्धा।२००१ — लिथुवानिया-देशस्य राष्ट्रपतिः एडमकस भारतम् आगतः; उभयदेशयोः त्रयः सन्धिः सम्पन्नाः।२००१ — भारतीय-कम्युनिस्ट-दलस्य वरिष्ठनेतुः इन्द्रजीत्-गुप्तस्य निधनम् अभवत्।२००० — भारतीय-मूलस्य ब्रिटिश-लेखकः सलमान्-रुशदी ब्रिटेनं त्यक्त्वा न्यूयार्क-नगरे निवासं कर्तुं निश्चयं कृतवान्।२००२ — मिस्रदेशस्य काहिरा-नगरे चलिते रेलयाने वह्निदाहेन ३७३ जनाः मृताः।२००३ — ईरानदेशे विमान-दुर्घटनायां ३०२ जनाः मृताः।२००७ — यूरोपीय-संघः २०१० तमे वर्षे पर्यन्तं कार्बन-डाइ-आक्साइड-उत्सर्जनं २० प्रतिशतं न्यूनीकर्तुं सहमतः अभवत्।२००८ — रक्षासौदे ऑफसेट्-नीतिः अनुमोदिता।२००८ — भारतीय-स्टेट्-धनागारस्य नेतृत्वे चत्वारः सर्कावरी-धनागाराः प्राथमिकी-ऋण-दरान् ०.२५–०.५० प्रतिशतपर्यन्तं न्यूनं कृतवन्तः।२००८ — अमेरिकादेशे राष्ट्रपतिपदस्य दावेदारः बराक्-ओबामा स्वस्य नवमं विजयम् अभिलेखितवान्।२००९ — भ्रष्टाचार-आरोपेषु कलकत्ता-उच्चन्यायालयस्य न्यायाधीशः सौमित्र-सेनस्य विरुद्धं महाभियोगः प्रचलितः।२०१५ — स्विट्जरलैण्ड-देशस्य राफ्ज्-नगरे द्वयोः रेलयानयोः संघट्टने ४९ जनाः मृताः।

जन्म

१९०९ — अजयघोषः — भारतीय-कम्युनिस्ट-पक्षस्य नेता आसीत्।१९२१ — रावः वीरेन्द्रसिंहः — हरियाणा-प्रदेशस्य द्वितीयः मुख्यमन्त्री आसीत्।१९३२ — भबेन्द्रनाथः सैकिया — भारतीयः उपन्यासकारः, लघुकथा-लेखकः तथा चलचित्र-निर्देशकः आसीत्।१९३२ — के.वी.सुबन्ना — प्रसिद्धः कन्नड-नाटककारः।१९३५ — एन.जनार्दनः रेड्डी — भारतीय-राष्ट्रीय-काङ्ग्रेस-दले राजनीतिज्ञः; सः आन्ध्र-प्रदेशस्य मुख्यमन्त्री आसीत्।१९३६ — जरनैलसिंहः — फुटबॉल-क्रीडायां श्रेष्ठतमेषु क्रीडकेषु एकः।१९४५ — अनुकपूरः — भारतीयः अभिनेता।१९४६ — पंकजबिष्टः — हिन्दी-साहित्यस्य प्रतिष्ठितः पत्रकारः, कथाकारः, उपन्यासकारः तथा समालोचकः।१९४७ — जयन्तकुमारः मलैया — भारतीय-जनता-पक्षस्य नेता, मध्य-प्रदेशे।१९५५ — रघुवेंद्रतंवरः — भारतीयः साहित्यकारः।१९७६ — रोहनगावास्करः — क्रिकेट-क्रीडकः।१९८८ — जिया खान — भारतीयाऽभिनेत्री।

निधनम्

१७०७ - औरंगजेबः १९५० - शरत्-चन्द्र-बोसः १९८५ - भवानी-प्रसाद-मिश्रः २०२४ - अमीन-सयानी इत्यादयः।

महत्वपूर्णाः दिवसाः

अरुणाचल-प्रदेश-दिवसःमिजोरम-दिवसःविश्व-सामाजिक-न्याय-दिवसः

हिन्दुस्थान समाचार / Dheeraj Maithani