छत्रपति शिवाजी महाराजस्य जयंत्यां पिधास्यते मुद्रापणः, शेयर बाजार इत्यत्र भविष्यति व्यापारः
नवदिल्‍ली, 19 फरवरीमासः (हि.स)। छत्रपति शिवाजी महाराजस्य जयंत्युपलक्ष्ये गुरुवासरे भारतीयविदेशीमुद्रामार्कट् बन्दः भविष्यति। अधुना विदेशीमुद्रामार्कटे शुक्रवासरे एव व्यवहारः भविष्यति। यद्यपि देशीयशेयरमार्कटे व्यापारः प्रवर्तते, तथापि धनराशेः तथा
भारतीय विदेशी मुद्रा बाजार का प्रतीकात्‍मक चित्र


नवदिल्‍ली, 19 फरवरीमासः (हि.स)।

छत्रपति शिवाजी महाराजस्य जयंत्युपलक्ष्ये गुरुवासरे भारतीयविदेशीमुद्रामार्कट् बन्दः भविष्यति। अधुना विदेशीमुद्रामार्कटे शुक्रवासरे एव व्यवहारः भविष्यति। यद्यपि देशीयशेयरमार्कटे व्यापारः प्रवर्तते, तथापि धनराशेः तथा शेयराणां निपटानक्रिया अद्य न भविष्यति।

महाराष्ट्रराज्ये अद्य छत्रपति शिवाजी महाराजस्य जयंतीनिमित्तं सार्वजानिकावकाशः अस्ति। शासकीयकार्यालयानि तथा बैंकसंस्थाः पिधास्यन्ते , किन्तु सार्वजनिकयानव्यवस्था सामान्यरूपेण प्रवर्तते। जयंतीअवसरे मार्कटे निपटानावकाशः अस्ति, परन्तु शेयरमार्कट् न बन्दः अस्ति। यथापूर्वं शेयराणां क्रयविक्रयः भविष्यति, केवलं धनशेयरयोः निपटानं अद्य न भविष्यति।

भारतीयआरक्षितबैंकस्य आधिकारिकावकाशपञ्जिकानुसारं १९ फेब्रुवारीदिने केवलं महाराष्ट्रे एव बैंकाः बन्दाः भविष्यन्ति। अस्मिन् दिने सार्वजनिकावकाशघोषणया मुम्बई नागपुर बेलापुरादिषु सर्वासु बैंकशाखासु तालेन बद्धाः भविष्यन्ति।

---------------

हिन्दुस्थान समाचार