Enter your Email Address to subscribe to our newsletters




नव दिल्ली, 19 फरवरीमासः (हि.स.)।
विनय कुमार सक्सेना तथा रेखा गुप्ता इत्येताभ्यां गीता कॉलोनी कृष्ण नगर-प्रदेशात् अद्य पञ्चविंशतिः नवीनाः अटल-कैण्टीनाः उद्घाटिताः। अस्मिन् अवसरे शिक्षामन्त्री आशीषसूदः तथा स्थानिक-जनप्रतिनिधयः अपि उपस्थिताः आसन्। उपराज्यपालः, मुख्यमन्त्री, शिक्षामन्त्री, जनप्रतिनिधयः च अटल-कैण्टीन्याम् उपविश्य सहभोजनम् अपि अकरोत्।
दिल्ली-सरकारेण अटल-कैण्टीन्याम् प्रतिदिनं द्विवारं पञ्च-पञ्च-रूप्यकेण आवश्यकताभ्यः जनाभ्यः भोजनं प्रदीयते। मुख्यमन्त्रिणा पूर्वप्रधानमन्त्रिणः अटल बिहारी वाजपेयी-जन्मजयन्त्यां, २५ दिसम्बर-दिने, अटल-कैण्टीन-योजनायाः शुभारम्भः कृतः। सरकारस्य लक्ष्यं शतं कैण्टीनानां उद्घाटनम् अस्ति।
मुख्यमन्त्रिणा ‘एक्स’-सन्देशे उक्तं यत् पूर्वसरकारस्य एकादश-वर्षेषु कैण्टीन-प्रकल्पाः सञ्चिकासु एव अवरुद्धाः आसन्, किन्तु भारतीय जनता पार्टी-सरकारस्य एकस्मिन् एव वर्षे एकसप्ततिः (७१) अटल-कैण्टीनाः उद्घाटिताः। अद्यप्रभृति एतासु कैण्टीनासु प्रतिदिनं एकसप्ततिसहस्रं (७१०००) थालिकाः वितरिष्यन्ते। एताः अटल-कैण्टीनाः प्रत्येकस्य श्रमिकस्य सम्मानरूपाः सन्ति, ये दिल्ली-नगरस्य निर्माणे संलग्नाः सन्ति, तेषां कृते उष्णं पौष्टिकं च भोजनं व्यवस्थापितम् अस्ति।
पर्यावरणमन्त्री मनजिन्दरसिंहसिरसा मॉडल टाउन लालबाग-क्षेत्रे अटल-कैण्टीन-शुभारम्भे उपस्थितः आसीत्, सः स्थानिकैः सह उपविश्य भोजनम् अकरोत्। तेन उक्तं यत् मुख्यमन्त्री-नेतृत्वे अन्त्योदय-दर्शनस्य भूमौ अवतारणार्थं एषा पहल आवश्यकता-युक्त-परिवाराणां कृते पौष्टिक-भोजन-प्रदानस्य दृढः पादः अस्ति। “कश्चन अपि क्षुधितः न शयेते, प्रत्येकं आवश्यकतावन्तं प्रति सम्मानपूर्वकं भोजनं प्राप्येत” इति अस्माकं संकल्पः।
पर्यटनमन्त्री कपिलमिश्रः करावल नगर चौहान पट्टी बस टर्मिनल-स्थले अटल-कैण्टीन-उद्घाटने उपस्थितः आसीत्। सः टोकनं गृहीत्वा जनैः सह भोजनम् अकरोत्। तेन ‘एक्स’-सन्देशे उक्तं यत् सरकारः निरन्तरं अटल-कैण्टीनान् उद्घाटयति, येन सामान्यजनाय अल्पमूल्ये पौष्टिकं भोजनं लभ्येत।
योगेंद्र चांदोलिया इत्यनेन ए ब्लॉक ज्वालापुरी नांगलोई-प्रदेशे नवोद्घाटितायाम् अटल-कैण्टीन्याम् जनैः सह भोजनं कृतम्। अस्मिन् अवसरे विधायकः मनोजकुमारशौकीनः अपि उपस्थितः आसीत्। तेन उक्तं यत् अटल-बिहारी-वाजपेयी-महाभागस्य आदर्शैः प्रेरिता एषा जनकल्याणकारी-योजना केवलं पञ्च-रूप्यकेण पौष्टिक-भोजनं प्रदाय श्रमिकाणां कर्मयोगिनां च सम्माननं सुदृढीकरोति।
-----------
हिन्दुस्थान समाचार