Enter your Email Address to subscribe to our newsletters

लखनऊ, 19 फरवरीमासः (हि.स.)।उत्तरप्रदेशस्य उपमुख्यमन्त्री केशव प्रसाद मौर्यः ब्रजेश पाठकश्च गुरुवासरे पृथक् पृथक् समये लखनऊनगरस्य निरालानगरस्थिते सरस्वती कुंज आगत्य मोहन राव भागवत इत्येन सह शिष्टाचारभेटां कृतवन्तौ। सरसंघचालकेन अत्र संघप्रचारकैः सह अपि बैठकाऽयोजिता।
एतस्मात् पूर्वं उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथ बुधवासरे डॉ भागवत इत्येन सह मिलितवान् आसीत्।
वास्तवतः सरसंघचालकः लखनऊनगरे त्रिदिनात्मकप्रवासे वर्तते, अद्य तस्य प्रवासस्य तृतीयः अन्तिमः च दिवसः अस्ति। सः १७ फरवरी दिने निरालानगरस्थिते माधव सभागार आयोजिते कुटुम्बमिलनकार्यक्रमे सहभागी अभवत्। ततः १८ फरवरी दिने लखनऊ विश्वविद्यालय मालवीयसभागारे शोधार्थिभिः सह संवादं कृतवान्। तस्मिन्नेव दिने सायंकाले गोमतीनगरस्थिते इंदिरा गांधी प्रतिष्ठान आयोजितां प्रमुखजनगोष्ठीम् अपि सम्बोधितवान्।
हिन्दुस्थान समाचार