प्रधानमन्त्री-नरेन्द्रमोदिना इण्डिया-एआई-इम्पैक्ट-शिखर-सम्मेलनस्य उद्घाटनं कृतम्, अश्विनीवैष्णव: नव-दिल्ली-फ्रण्टियर-एआई-इम्पैक्ट-प्रतिबद्धतानां घोषणां कृतवान्
नवदिल्ली, १९ फरवरीमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे भारत-मण्डपम्-मध्ये आयोजितस्य इण्डिया-एआई-इम्पैक्ट-शिखर-सम्मेलनस्य उद्घाटनं कृत्वा अवदत् यत् कृत्रिम-बुद्धेः (एआई) भविष्यं पारदर्शितायाम्, उत्तरदायित्वे तथा मानव-हिते आधारिता भवितव्
देश में आयोजित एआई इम्पैक्ट समिट में मौजूद प्रधानमंत्री मोदी के साथ फ्रांस और ब्राजील के राष्ट्रपति के साथ तमाम नेता


नवदिल्ली, १९ फरवरीमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे भारत-मण्डपम्-मध्ये आयोजितस्य इण्डिया-एआई-इम्पैक्ट-शिखर-सम्मेलनस्य उद्घाटनं कृत्वा अवदत् यत् कृत्रिम-बुद्धेः (एआई) भविष्यं पारदर्शितायाम्, उत्तरदायित्वे तथा मानव-हिते आधारिता भवितव्या। एआई न केषाञ्चन राष्ट्राणां वा केषाञ्चन निर्माणिनां साधनं भवेत्, अपि तु “सर्वजन-हिताय, सर्वजन-सुखाय” माध्यमं भवेत्। सः मानव-केन्द्रितं एआई-दर्शनं प्रस्तूय अवदत् यत् अवसरैः सह समस्या: अपि सन्ति, अतः एआई मानव-केन्द्रितया उत्तरदायित्वपूर्णया च रीत्या विकासनीया।अस्मिन् अवसरे इमैनुएल: मैक्रों, एंटोनियो गुटेरेस:, केन्द्रीयमन्त्री अश्विनीवैष्णव:, वैश्विक-प्रौद्योगिकी-निर्माणिनां प्रमुखाः तथा उद्योग-जगतः दिग्गजाः उपस्थिताः आसन्। सम्मेलनकाले नव-दिल्ली-फ्रण्टियर-एआई-इम्पैक्ट-प्रतिबद्धतानां घोषणाऽपि कृता, यस्य उद्देश्यं एआई-तन्त्रज्ञानं समावेशी, बहुभाषिकं तथा वैश्विक-विकासस्य साधनं कर्तुम् अस्ति।

प्रधानमन्त्रिणा डीप-फेक इत्यादीनां समस्यानां उल्लेखः कृतः। सः अवदत् यथा खाद्य-पदार्थेषु घटक-लेबलिङ् भवति, तथैव डिजिटल-विषयवस्तूनि अपि लेबलिङ्-युक्तानि भवितव्यानि, येन जनाः सत्य-असत्ययोः भेदं कर्तुं शक्नुवन्ति। एआई-प्रभावस्य वेगः विस्तारश्च महान् अस्ति— तस्मात् शुभाशुभ-द्वयमपि सम्भवति; अतः सावधानता आवश्यक्यैव। एआई-विकासे स्वातन्त्र्यं दातव्यम्, किन्तु नियन्त्रणं मानवहस्तेष्वेव भवेत्। विकासशील-देशानां कृते एआई-तन्त्रज्ञानस्य लोकतन्त्रीकरणं आवश्यकम्। मनुष्याः केवलं दत्तांश-स्रोतांसि न भवेयुः, अपि तु एआई सशक्तिकरणस्य माध्यमं भवेत्।

प्रधानमन्त्री अवदत् यत् लोके केचन एआई-विषये भीताः सन्ति, केचन च तस्मिन् भाग्यं पश्यन्ति। भारतः गर्वेण वदति— अस्माकं कृते एआई-विषये न भयः, अपि तु भाग्यं भविष्यं च दृश्यते। भारतः सेमिकण्डक्टर-चिप-निर्माणात् आरभ्य क्वाण्टम्-कम्प्यूटिङ्-पर्यन्तं सुदृढं इकोसिस्टमं निर्माति। सुरक्षितानि डेटा-केन्द्राणि, सबलं आईटी-आधारभूतं संरचनं तथा गतिशीलः स्टार्ट-अप-संस्कृतिः भारतं अल्पमूल्यता, विस्तारयोग्यं सुरक्षितं च एआई-केन्द्रं कर्तुं समर्थयन्ति। भारतस्य विविधता, युवा-जनसंख्या तथा लोकतन्त्रं तं विशेषं कुर्वन्ति—अत्र सफलः एआई-नमूना सम्पूर्ण-विश्वे कार्यं कर्तुं शक्नोति।

प्रधानमन्त्री अपि अवदत्—यथा विद्यालयीय-पाठ्यक्रमः बालकानां कृते सुरक्षितः कुटुम्ब-मार्गदर्शनयुक्तश्च भवति, तथैव एआई अपि बालकानां कृते सुरक्षितं भवेत्। शिखर-सम्मेलने त्रयः भारतीय-निर्माण्य: स्व-एआई-नमूना तथा अनुप्रयोगान् उद्घाटितवत्यः, ये युवा-प्रतिभां भारतस्य विविधतां च प्रदर्शयन्ति। प्रदर्शिन्यां कृषिः, सुरक्षा, दिव्याङ्ग-सहायता, बहुभाषिक-समाधानानि इत्यादिषु क्षेत्रेषु मेड-इन-इण्डिया-समाधानैः सर्वेषां ध्यानं आकृष्टम्। सः अवदत्—नव-प्रौद्योगिक्याः आरम्भे सन्देहः जायते, किन्तु युवभि: एआई-स्वीकारस्य वेगः अभूतपूर्वः।

फ्रान्स-राष्ट्रपतिः इमैनुएल मैक्रों अवदत् यत् भारतः तादृशं साधितवान् यत् अन्येन केनचित् राष्ट्रेण न साधितम्—१.४ अरब-जनानां कृते डिजिटल-परिचय:, यूपीआई-द्वारा मासे कोट्यधिक-दानप्रदानम्, डिजिटल-स्वास्थ्य-प्रमाणानि— एषा सभ्यतायाः कथा अस्ति। एआई अधुना रणनैतिकं क्षेत्रं जातम्; स्पर्धा तीव्रा— वयं यदि न एकत्र भविष्यामः तर्हि पृष्ठतः पतिष्यामः। कोऽपि देशः निर्माणी वा कञ्चन देशं केवलं विपणिरूपेण वा दत्तांश-स्रोतरूपेण न पश्येत्। एआई उत्पादकता वर्धिष्यते, किन्तु सर्वेभ्यः सुलभा भवेत्; भाषिक-विविधता-युक्ता भवेत्, येन सर्वे उपयोगं कर्तुं शक्नुवन्ति। सः बालकानां डिजिटल-दुरुपयोगात् संरक्षणस्य आवश्यकतामपि अवदत्; भाषणस्य अन्ते सः “जय हो” इति उक्तवान्।

संयुक्त-राष्ट्र-महासचिवः एंटोनियो-गुटेरेस: प्रधानमन्त्रिणे धन्यवादं दत्त्वा अवदत्— दक्षिणविश्वे प्रथमं एआई-शिखर-सम्मेलनं भारतदेश: आयोजितवान्, एतत् विशेषम्। एआई-भविष्यं केषाञ्चन देशानां वा अल्पसंख्यक-धनिकानां हस्तेषु न न्यस्तव्यम्— अयं सम्पूर्ण-मानवतायाः विषयः। सर्वेषां देशानां सहभागिता आवश्यक्यैव। सः अवदत् यत् संयुक्त-राष्ट्र-सभायां गतवर्षे द्वौ महत्त्वपूर्णौ निर्णयौ कृतौ—एआई-विषये स्वतन्त्रः अन्ताराष्ट्रियं वैज्ञानिक-पटलं (४० विशेषज्ञैः सह) तथा संयुक्त-राष्ट्रान्तर्गतं एआई-शासन-विषये वैश्विक-संवादस्य आरम्भः।

सः अवदत्—एआई सर्वेभ्यः सुलभा भवेत्; तदर्थं वैश्विकः कोषः निर्मेयः— लक्ष्यं त्रयः अर्बुद-डॉलराः। एषा राशि: कौशल-विकासे, दत्तांशे, न्यूनता-संगणने तथा समावेशी-वातावरण-निर्माणे व्ययिता भविष्यति। एआई-द्वारा सतत-विकास-लक्ष्याणि साधयितुं शक्यन्ते— औषध-अनुसन्धानं शीघ्रं भविष्यति, शिक्षा वर्धिष्यते, खाद्य-सुरक्षा सुदृढा भविष्यति, जलवायु-कार्यम् उत्तमं भविष्यति। किन्तु एआई असमानतां पूर्वाग्रहं च वर्धयितुं शक्नोति; हानिं कर्तुं शक्नोति। डेटा-केन्द्राणि शुद्ध-ऊर्जया सञ्चालनीयानि; श्रमिकेषु निवेशः आवश्यकः—येन एआई मानव-स्थानापन्ना न भवेत्। बालकाः अनियन्त्रित-एआई-प्रयोगस्य विषयाः न भवेयुः। अस्य शिखर-सम्मेलनस्य सन्देशः स्पष्टः— याः प्रौद्योगिक्यः जीवनानि उत्तमानि कुर्वन्ति पृथिवीं च रक्षन्ति, ताः एव वास्तविक-प्रभाव-युक्ताः।

केन्द्रीय-सूचना-प्रसारण-मन्त्री अश्विनी-वैष्णव: नव-दिल्ली-फ्रण्टियर-एआई-इम्पैक्ट-प्रतिबद्धतानां घोषणां कृतवान्। एताः द्वाभ्यां मुख्य-लक्ष्याभ्यां आधारिता—(१) दत्तांशात् रोजगार-सृजनाय आर्थिक-परिवर्तनाय च साक्ष्य-आधारित-नीतयः निर्मातुम्, (२) एआई-तन्त्रज्ञानं बहुभाषिकं सांस्कृतिक-दृष्ट्या सुदृढं च कर्तुम्। एताः प्रतिबद्धताः वैश्विक-दक्षिण-निमित्तं समावेशी-एआई-नेतृत्वे भारतस्य भूमिकां दर्शयन्ति। अनेकाः महत्यः एआई-निर्माण्य: तथा भारतीय-नवोन्मेषकाः स्वैच्छिक-संकल्पान् गृह्णन्ति। भारतस्य एआई-शासन-दर्शनं उत्तरदायित्वपूर्ण-नवाचाराय मार्गदर्शकं वर्तते। सप्त विषयगताः कार्य-समूहाः निष्कर्ष-नमूना: निर्मास्यन्ति। आईटी-सचिवः एस.कृष्णन् अवदत्—अस्माकं दृष्टिकोणं “सतर्क-उत्साह” इति; समस्यासु सजगतां धारयन्तः वैश्विक-मानकान् प्राथमिकतां दद्मः।

टाटा-समूहस्य अध्यक्षः एन.चंद्रशेखरन् अवदत्— भारतं एआई-विषये अत्यन्तम् आशावादी अस्ति; डिजिटल-आधारभूत-संरचनायाः सामर्थ्यं दृष्टम्, अधुना एआई अग्रिमम् आधारभूतं संरचनं भविष्यति— वाष्प-इञ्जिन, विद्युत्, अन्तर्जालवत् परिवर्तनं करिष्यति। एआई केवलं कृत्रिमं न, अपि तु दत्तांशात् शिक्षमाणा वास्तविक-प्रौद्योगिकी— या सर्वान् उद्योगान् प्रभावितुं शक्नोति।

रिलायन्स-समूहस्य मुकेश: अंबानी अवदत्—एषा शिखर-वार्ता भारतस्य प्रौद्योगिकी-इतिहासे निर्णायकं क्षणम्। एआई “विकसित-भारत-२०४७” इत्यस्य स्वप्नं साकारयितुं समर्था। सम्यक् उपयोगेन विश्वात् दारिद्र्यं निवारयितुं सम्पूर्ण-मानवतायै समृद्धिं च आनयितुं शक्नोति। एआई मानवानिव शिक्षितुं, वक्तुं, कार्यं कर्तुं च शक्नोति। सः एआई-तन्त्रज्ञानं महाभारतस्य अक्षय-पात्रेण उपमितवान्। सः अवदत्—विश्वं अधुना द्विमार्गे स्थितम्; एकः मार्गः यत्र एआई सीमिता, अपरः यत्र सर्वेभ्यः अवसराः। भारतः द्वितीयं मार्गं वरणीयं मन्यते। भारतस्य सुदृढः आधारः अस्ति—अत्यधिकः दूरभाष-दत्तांश-उपयोगः, सामायदत्तांशः, आधारः, यूपीआई, स्टार्ट-अप-इकोसिस्टम। जियो अधुना एआई-परिवर्तने महतीं भूमिकां निर्वहिष्यति।

ओपन-एआई-निर्माण्य: मुख्य-कार्यकारी-अधिकारी सैम ऑल्टमैन अवदत्— भारतदेशे एआई-कार्यम् तथा स्वीकृतिः विश्वे नेतृत्वं कुर्वन्ति; भारतदेश: एआई-तन्त्रज्ञानस्य सर्वाधिकं विपणं भविष्यति। रोजगार-क्षेत्रे प्रभावः भविष्यति, किन्तु नूतनान् अवसरान् अपि आगमिष्यन्ति।

एलियांस-इण्डिया-संस्थायाः महाप्रबन्धकः सर्ज रैफार्ड: अवदत्—एआई सर्वेभ्यः सुलभा भवेत्, येन सम्पूर्णं विश्वम् उन्नतिं प्राप्नुयात्; एषा शिखर-वार्ता अपेक्षातः अपि महती।

एन्थ्रोपिक-निर्माण्या: मुख्य-कार्यकारी-अधिकारी डारियो अमोदेई अवदत्— भारतदेश: एआई-भविष्ये केन्द्रियं स्थानं धारयिष्यति। निर्माण्या बेंगलुरु-नगरे कार्यालयं उद्घाटितम्, इन्फोसिस-इत्यादिभिः सह सहभागिता च कृता। भारतदेशे एआई-विषये अद्भुतः उत्साहः ऊर्जा च दृश्यते; निर्माण-नवोन्मेष-भावना अत्र विशिष्टा। एआई-दुरुपयोगः, आर्थिक-प्रभावाः, स्वायत्त-आचरण-विषयाः— एतेषु भारतस्य भूमिका अत्यन्तं महत्त्वपूर्णा भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता