Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १९ फरवरीमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे भारत-मण्डपम्-मध्ये आयोजितस्य इण्डिया-एआई-इम्पैक्ट-शिखर-सम्मेलनस्य उद्घाटनं कृत्वा अवदत् यत् कृत्रिम-बुद्धेः (एआई) भविष्यं पारदर्शितायाम्, उत्तरदायित्वे तथा मानव-हिते आधारिता भवितव्या। एआई न केषाञ्चन राष्ट्राणां वा केषाञ्चन निर्माणिनां साधनं भवेत्, अपि तु “सर्वजन-हिताय, सर्वजन-सुखाय” माध्यमं भवेत्। सः मानव-केन्द्रितं एआई-दर्शनं प्रस्तूय अवदत् यत् अवसरैः सह समस्या: अपि सन्ति, अतः एआई मानव-केन्द्रितया उत्तरदायित्वपूर्णया च रीत्या विकासनीया।अस्मिन् अवसरे इमैनुएल: मैक्रों, एंटोनियो गुटेरेस:, केन्द्रीयमन्त्री अश्विनीवैष्णव:, वैश्विक-प्रौद्योगिकी-निर्माणिनां प्रमुखाः तथा उद्योग-जगतः दिग्गजाः उपस्थिताः आसन्। सम्मेलनकाले नव-दिल्ली-फ्रण्टियर-एआई-इम्पैक्ट-प्रतिबद्धतानां घोषणाऽपि कृता, यस्य उद्देश्यं एआई-तन्त्रज्ञानं समावेशी, बहुभाषिकं तथा वैश्विक-विकासस्य साधनं कर्तुम् अस्ति।
प्रधानमन्त्रिणा डीप-फेक इत्यादीनां समस्यानां उल्लेखः कृतः। सः अवदत् यथा खाद्य-पदार्थेषु घटक-लेबलिङ् भवति, तथैव डिजिटल-विषयवस्तूनि अपि लेबलिङ्-युक्तानि भवितव्यानि, येन जनाः सत्य-असत्ययोः भेदं कर्तुं शक्नुवन्ति। एआई-प्रभावस्य वेगः विस्तारश्च महान् अस्ति— तस्मात् शुभाशुभ-द्वयमपि सम्भवति; अतः सावधानता आवश्यक्यैव। एआई-विकासे स्वातन्त्र्यं दातव्यम्, किन्तु नियन्त्रणं मानवहस्तेष्वेव भवेत्। विकासशील-देशानां कृते एआई-तन्त्रज्ञानस्य लोकतन्त्रीकरणं आवश्यकम्। मनुष्याः केवलं दत्तांश-स्रोतांसि न भवेयुः, अपि तु एआई सशक्तिकरणस्य माध्यमं भवेत्।
प्रधानमन्त्री अवदत् यत् लोके केचन एआई-विषये भीताः सन्ति, केचन च तस्मिन् भाग्यं पश्यन्ति। भारतः गर्वेण वदति— अस्माकं कृते एआई-विषये न भयः, अपि तु भाग्यं भविष्यं च दृश्यते। भारतः सेमिकण्डक्टर-चिप-निर्माणात् आरभ्य क्वाण्टम्-कम्प्यूटिङ्-पर्यन्तं सुदृढं इकोसिस्टमं निर्माति। सुरक्षितानि डेटा-केन्द्राणि, सबलं आईटी-आधारभूतं संरचनं तथा गतिशीलः स्टार्ट-अप-संस्कृतिः भारतं अल्पमूल्यता, विस्तारयोग्यं सुरक्षितं च एआई-केन्द्रं कर्तुं समर्थयन्ति। भारतस्य विविधता, युवा-जनसंख्या तथा लोकतन्त्रं तं विशेषं कुर्वन्ति—अत्र सफलः एआई-नमूना सम्पूर्ण-विश्वे कार्यं कर्तुं शक्नोति।
प्रधानमन्त्री अपि अवदत्—यथा विद्यालयीय-पाठ्यक्रमः बालकानां कृते सुरक्षितः कुटुम्ब-मार्गदर्शनयुक्तश्च भवति, तथैव एआई अपि बालकानां कृते सुरक्षितं भवेत्। शिखर-सम्मेलने त्रयः भारतीय-निर्माण्य: स्व-एआई-नमूना तथा अनुप्रयोगान् उद्घाटितवत्यः, ये युवा-प्रतिभां भारतस्य विविधतां च प्रदर्शयन्ति। प्रदर्शिन्यां कृषिः, सुरक्षा, दिव्याङ्ग-सहायता, बहुभाषिक-समाधानानि इत्यादिषु क्षेत्रेषु मेड-इन-इण्डिया-समाधानैः सर्वेषां ध्यानं आकृष्टम्। सः अवदत्—नव-प्रौद्योगिक्याः आरम्भे सन्देहः जायते, किन्तु युवभि: एआई-स्वीकारस्य वेगः अभूतपूर्वः।
फ्रान्स-राष्ट्रपतिः इमैनुएल मैक्रों अवदत् यत् भारतः तादृशं साधितवान् यत् अन्येन केनचित् राष्ट्रेण न साधितम्—१.४ अरब-जनानां कृते डिजिटल-परिचय:, यूपीआई-द्वारा मासे कोट्यधिक-दानप्रदानम्, डिजिटल-स्वास्थ्य-प्रमाणानि— एषा सभ्यतायाः कथा अस्ति। एआई अधुना रणनैतिकं क्षेत्रं जातम्; स्पर्धा तीव्रा— वयं यदि न एकत्र भविष्यामः तर्हि पृष्ठतः पतिष्यामः। कोऽपि देशः निर्माणी वा कञ्चन देशं केवलं विपणिरूपेण वा दत्तांश-स्रोतरूपेण न पश्येत्। एआई उत्पादकता वर्धिष्यते, किन्तु सर्वेभ्यः सुलभा भवेत्; भाषिक-विविधता-युक्ता भवेत्, येन सर्वे उपयोगं कर्तुं शक्नुवन्ति। सः बालकानां डिजिटल-दुरुपयोगात् संरक्षणस्य आवश्यकतामपि अवदत्; भाषणस्य अन्ते सः “जय हो” इति उक्तवान्।
संयुक्त-राष्ट्र-महासचिवः एंटोनियो-गुटेरेस: प्रधानमन्त्रिणे धन्यवादं दत्त्वा अवदत्— दक्षिणविश्वे प्रथमं एआई-शिखर-सम्मेलनं भारतदेश: आयोजितवान्, एतत् विशेषम्। एआई-भविष्यं केषाञ्चन देशानां वा अल्पसंख्यक-धनिकानां हस्तेषु न न्यस्तव्यम्— अयं सम्पूर्ण-मानवतायाः विषयः। सर्वेषां देशानां सहभागिता आवश्यक्यैव। सः अवदत् यत् संयुक्त-राष्ट्र-सभायां गतवर्षे द्वौ महत्त्वपूर्णौ निर्णयौ कृतौ—एआई-विषये स्वतन्त्रः अन्ताराष्ट्रियं वैज्ञानिक-पटलं (४० विशेषज्ञैः सह) तथा संयुक्त-राष्ट्रान्तर्गतं एआई-शासन-विषये वैश्विक-संवादस्य आरम्भः।
सः अवदत्—एआई सर्वेभ्यः सुलभा भवेत्; तदर्थं वैश्विकः कोषः निर्मेयः— लक्ष्यं त्रयः अर्बुद-डॉलराः। एषा राशि: कौशल-विकासे, दत्तांशे, न्यूनता-संगणने तथा समावेशी-वातावरण-निर्माणे व्ययिता भविष्यति। एआई-द्वारा सतत-विकास-लक्ष्याणि साधयितुं शक्यन्ते— औषध-अनुसन्धानं शीघ्रं भविष्यति, शिक्षा वर्धिष्यते, खाद्य-सुरक्षा सुदृढा भविष्यति, जलवायु-कार्यम् उत्तमं भविष्यति। किन्तु एआई असमानतां पूर्वाग्रहं च वर्धयितुं शक्नोति; हानिं कर्तुं शक्नोति। डेटा-केन्द्राणि शुद्ध-ऊर्जया सञ्चालनीयानि; श्रमिकेषु निवेशः आवश्यकः—येन एआई मानव-स्थानापन्ना न भवेत्। बालकाः अनियन्त्रित-एआई-प्रयोगस्य विषयाः न भवेयुः। अस्य शिखर-सम्मेलनस्य सन्देशः स्पष्टः— याः प्रौद्योगिक्यः जीवनानि उत्तमानि कुर्वन्ति पृथिवीं च रक्षन्ति, ताः एव वास्तविक-प्रभाव-युक्ताः।
केन्द्रीय-सूचना-प्रसारण-मन्त्री अश्विनी-वैष्णव: नव-दिल्ली-फ्रण्टियर-एआई-इम्पैक्ट-प्रतिबद्धतानां घोषणां कृतवान्। एताः द्वाभ्यां मुख्य-लक्ष्याभ्यां आधारिता—(१) दत्तांशात् रोजगार-सृजनाय आर्थिक-परिवर्तनाय च साक्ष्य-आधारित-नीतयः निर्मातुम्, (२) एआई-तन्त्रज्ञानं बहुभाषिकं सांस्कृतिक-दृष्ट्या सुदृढं च कर्तुम्। एताः प्रतिबद्धताः वैश्विक-दक्षिण-निमित्तं समावेशी-एआई-नेतृत्वे भारतस्य भूमिकां दर्शयन्ति। अनेकाः महत्यः एआई-निर्माण्य: तथा भारतीय-नवोन्मेषकाः स्वैच्छिक-संकल्पान् गृह्णन्ति। भारतस्य एआई-शासन-दर्शनं उत्तरदायित्वपूर्ण-नवाचाराय मार्गदर्शकं वर्तते। सप्त विषयगताः कार्य-समूहाः निष्कर्ष-नमूना: निर्मास्यन्ति। आईटी-सचिवः एस.कृष्णन् अवदत्—अस्माकं दृष्टिकोणं “सतर्क-उत्साह” इति; समस्यासु सजगतां धारयन्तः वैश्विक-मानकान् प्राथमिकतां दद्मः।
टाटा-समूहस्य अध्यक्षः एन.चंद्रशेखरन् अवदत्— भारतं एआई-विषये अत्यन्तम् आशावादी अस्ति; डिजिटल-आधारभूत-संरचनायाः सामर्थ्यं दृष्टम्, अधुना एआई अग्रिमम् आधारभूतं संरचनं भविष्यति— वाष्प-इञ्जिन, विद्युत्, अन्तर्जालवत् परिवर्तनं करिष्यति। एआई केवलं कृत्रिमं न, अपि तु दत्तांशात् शिक्षमाणा वास्तविक-प्रौद्योगिकी— या सर्वान् उद्योगान् प्रभावितुं शक्नोति।
रिलायन्स-समूहस्य मुकेश: अंबानी अवदत्—एषा शिखर-वार्ता भारतस्य प्रौद्योगिकी-इतिहासे निर्णायकं क्षणम्। एआई “विकसित-भारत-२०४७” इत्यस्य स्वप्नं साकारयितुं समर्था। सम्यक् उपयोगेन विश्वात् दारिद्र्यं निवारयितुं सम्पूर्ण-मानवतायै समृद्धिं च आनयितुं शक्नोति। एआई मानवानिव शिक्षितुं, वक्तुं, कार्यं कर्तुं च शक्नोति। सः एआई-तन्त्रज्ञानं महाभारतस्य अक्षय-पात्रेण उपमितवान्। सः अवदत्—विश्वं अधुना द्विमार्गे स्थितम्; एकः मार्गः यत्र एआई सीमिता, अपरः यत्र सर्वेभ्यः अवसराः। भारतः द्वितीयं मार्गं वरणीयं मन्यते। भारतस्य सुदृढः आधारः अस्ति—अत्यधिकः दूरभाष-दत्तांश-उपयोगः, सामायदत्तांशः, आधारः, यूपीआई, स्टार्ट-अप-इकोसिस्टम। जियो अधुना एआई-परिवर्तने महतीं भूमिकां निर्वहिष्यति।
ओपन-एआई-निर्माण्य: मुख्य-कार्यकारी-अधिकारी सैम ऑल्टमैन अवदत्— भारतदेशे एआई-कार्यम् तथा स्वीकृतिः विश्वे नेतृत्वं कुर्वन्ति; भारतदेश: एआई-तन्त्रज्ञानस्य सर्वाधिकं विपणं भविष्यति। रोजगार-क्षेत्रे प्रभावः भविष्यति, किन्तु नूतनान् अवसरान् अपि आगमिष्यन्ति।
एलियांस-इण्डिया-संस्थायाः महाप्रबन्धकः सर्ज रैफार्ड: अवदत्—एआई सर्वेभ्यः सुलभा भवेत्, येन सम्पूर्णं विश्वम् उन्नतिं प्राप्नुयात्; एषा शिखर-वार्ता अपेक्षातः अपि महती।
एन्थ्रोपिक-निर्माण्या: मुख्य-कार्यकारी-अधिकारी डारियो अमोदेई अवदत्— भारतदेश: एआई-भविष्ये केन्द्रियं स्थानं धारयिष्यति। निर्माण्या बेंगलुरु-नगरे कार्यालयं उद्घाटितम्, इन्फोसिस-इत्यादिभिः सह सहभागिता च कृता। भारतदेशे एआई-विषये अद्भुतः उत्साहः ऊर्जा च दृश्यते; निर्माण-नवोन्मेष-भावना अत्र विशिष्टा। एआई-दुरुपयोगः, आर्थिक-प्रभावाः, स्वायत्त-आचरण-विषयाः— एतेषु भारतस्य भूमिका अत्यन्तं महत्त्वपूर्णा भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता