झारखंड विधानसभावित्तीयसत्रम् : सदने सुचारू रूपेण चलितः प्रश्न कालः
रांची, 19 फरवरीमासः ( हि.स.)।झारखण्डविधानसभायाः बजटसत्रस्य द्वितीये दिने गुरुवासरे प्रातः ११.०५ वादने सदनकार्यवाही आरब्धा। कार्यवाही प्रश्नकालात् आरब्धा च प्रश्नकालः सुचारुरूपेण सम्पन्नः। अस्मिन् समये ईचागढक्षेत्रस्य विधायक सबिता महतो चाण्डिलबन्धा
फाइल फोटो विधानसभा


रांची, 19 फरवरीमासः ( हि.स.)।झारखण्डविधानसभायाः बजटसत्रस्य द्वितीये दिने गुरुवासरे प्रातः ११.०५ वादने सदनकार्यवाही आरब्धा। कार्यवाही प्रश्नकालात् आरब्धा च प्रश्नकालः सुचारुरूपेण सम्पन्नः।

अस्मिन् समये ईचागढक्षेत्रस्य विधायक सबिता महतो चाण्डिलबन्धात् प्रभावितानां विस्थापितानां पुनर्वासविषयं उत्थापितवती। सा अवदत् यत् चाण्डिलबन्धप्रभावितानां पुनर्वासः अद्यापि न कृतः, द्विवर्षपर्यन्तं कापि गोष्ठी अपि न अभवत्। अस्य उत्तररूपेण जलसंसाधनमन्त्री हफीजुल हसन अवदत् यत् विस्थापितेभ्यः धनं दीयते, त्रयोदशसु स्थानेषु धनवितरणं कृतम्, अन्येभ्यः अपि दीयते। तदा विधायकः सबितामहतो अवदत् यत् केवलं ११६ ग्रामेषु एव धनं दत्तम्, शेषेभ्यः अपि दातव्यम्। मन्त्री प्रत्युवाच यत् सर्वेभ्यः नियमानुसारं भुगतानं करिष्यते।

डुमरीक्षेत्रस्य विधायकः जयराम महतो कृषकक्षेत्रसिंचनार्थं बन्धनिर्माणविषयं उत्थापितवान्। सः अवदत् यत् यदि सिंचनार्थं बन्धः निर्मितः, तर्हि कस्यापि ग्रामस्य नाम निर्दिश्यताम् यत्र बन्धजलस्य उपयोगेन क्षेत्रसिंचनं भवति। मन्त्री हफीजुलहसन प्रत्युवाच यत् चत्वारिलक्षाधिकएकडभूमेः सिंचनं बन्धजलतः भवति। पुनः विधायक जयराममहतो उक्तवान् यत् बन्धानां निर्माणं कृषकभूमिषु भवति, किन्तु जलं कम्पनीयः दीयते। तर्हि कृषकपुनर्वासे बाधाः कुतः? मन्त्री अवदत् यत् लघुतडागनिर्माणकार्यं प्रवर्तते। २०२९-३० पर्यन्तं चतुर्लक्षहेक्टेयरभूमेः सिंचनलक्ष्यं निर्धारितम्। अधोभूमिनलिकाप्रणाल्या जलप्रेषणस्य नूतनव्यवस्था प्रवर्तते।

विधायक हेमलाल मुर्मू खाद्यापूर्तिविभागसम्बद्धं प्रश्नं उत्थापितवान्। सः अवदत् यत् प्रखण्डापूर्त्यधिकारीनियुक्त्यभावेन जनाः कष्टं अनुभवन्ति। दुर्गमक्षेत्रेषु अन्तर्जालाभावात् जैवमितीयप्रणाल्या राशनवितरणं न भवति। मन्त्री इरफान अंसारी प्रत्युवाच यत् सत्यापनकार्यं प्रचलति। दुर्गमक्षेत्रेषु २जी स्थानं ४जी यन्त्राणि प्रदत्तानि सन्ति, समये अन्नवितरणं क्रियते।

विधायकः सरयू रायः बाजारसमितीनां दुरवस्थां उत्थापितवान्। सः राज सिंह स्थानं प्रतिनिधित्वेन प्रश्नं पृष्टवान्। अस्य उत्तरं कृषिमन्त्री शिल्पी नेहा तिर्की दत्तवती यत् बाजारसमितीपरिचालनार्थं आवश्यकमानवबलं उपलब्धम् अस्ति। शेषनियमावली शीघ्रं निर्मीयमानाऽस्ति, संचालनं पारदर्शितया सह उत्तमरूपेण भविष्यति।

---------------

हिन्दुस्थान समाचार