छत्रपतेः शिवाजी महाराजस्य जयंत्यां नगर निगमः अकरोत् समारोहस्य आयोजनम्
नव दिल्ली, 19 फरवरीमासः (हि.स.)। छत्रपति शिवाजी महाराजस्य जयन्त्याः अवसरे गुरुवासरे दिल्ली नगर निगमेन शिवाजी पार्के जवाहरलाल नेहरू मार्गस्थिते प्रतिमास्थले समारोहः आयोजितः। कार्यक्रमे दिल्ली नगर निगमस्य स्थायी समितेः अध्यक्षा सत्या शर्मा मुख्याति
एमसीडी में स्थायी समिति अध्यक्ष सत्या शर्मा छत्रपति शिवाजी महाराज की प्रतिमा पर माल्यार्पण करते हुए।


नव दिल्ली, 19 फरवरीमासः (हि.स.)।

छत्रपति शिवाजी महाराजस्य जयन्त्याः अवसरे गुरुवासरे दिल्ली नगर निगमेन शिवाजी पार्के जवाहरलाल नेहरू मार्गस्थिते प्रतिमास्थले समारोहः आयोजितः। कार्यक्रमे दिल्ली नगर निगमस्य स्थायी समितेः अध्यक्षा सत्या शर्मा मुख्यातिथिरूपेण उपस्थितवती।

अस्मिन् अवसरे सत्या शर्मा छत्रपति शिवाजी महाराजस्य प्रतिमायां माल्यार्पणं कृत्वा तस्मै श्रद्धासुमनानि अर्पितवती तथा तस्य अद्वितीयसाहसं राष्ट्रभक्तिं सुशासनस्य आदर्शान् च स्मृतवती।

स्थायी समितेः अध्यक्षा सत्या शर्मा अवदत् यत् छत्रपति शिवाजी महाराजः केवलं वीरयोद्धा न आसीत्, अपि तु उत्कृष्टः प्रशासकः जननायकश्च आसीत्। तेन स्थापिताः सुशासनस्य साहसस्य राष्ट्रसम्मानस्य च आदर्शाः अद्यापि अस्माकं सर्वेषां कृते प्रेरणास्रोतः वर्तते। सा अवदत् यत् दिल्ली नगर निगमः तस्य आदर्शान् आत्मसात्कृत्वा जनसेवायै पारदर्शी प्रशासनाय च प्रतिबद्धः अस्ति।

अस्मिन् अवसरे निगमस्य अधिकारीणः पार्षदाः स्थानीयनागरिकाश्च अपि उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार