Enter your Email Address to subscribe to our newsletters

जम्मूनगरम्, १९ फरवरीमासः (हि.स.)। जम्मू–कश्मीर–भाजपापक्षस्य अध्यक्षः तथा राज्यसभा–सांसदः सत–शर्मा जम्मू–नगरे त्रिकुटा–नगर–स्थिते भारतीय जनतापक्ष–मुख्यालये “जम्मू–कश्मीरमध्ये हिन्दुत्वस्य पोषणम् : ऐतिहासिकः सांस्कृतिकश्च परिप्रेक्ष्ये” इति पुस्तके विमोचनं कृतवान्। अस्य पुस्तकस्य लेखकः आयकर–विभागस्य पूर्व–आयुक्तः तथा नानाजी–देशमुख–पुस्तकालय–प्रलेखन–केन्द्रस्य सह–संयोजकः एस.के.–शर्मा अस्ति।
अस्मिन् कार्यक्रमे उपाध्यक्षः रेखा–महाजन:, महासचिवौ बलदेव–सिंह–बिल्लवारिया तथा गोपाल–महाजन:, मीडिया–प्रभारी डाॅ.प्रदीप–महोत्रा, अखिल–प्रकोष्ठ–प्रभारी वेद–शर्मा, जनपदाध्यक्षः नरेश–सिंह–जसरोतिया, प्रवक्ता बलबीर–राम–रतन:, पुस्तकालय–विभाग–प्रभारी प्राे.कुलभूषण–मोहत्रा तथा अन्ये वरिष्ठ–पदाधिकारिणः उपस्थिताः आसन्।
अस्मिन् अवसरे भाषमाणः सत–शर्मा पुस्तकेभ्यः “सभ्यतागत–स्मृतिः समाजस्य बौद्धिक–चेतना च” इति संज्ञां दत्त्वा अवदत् यत् साहित्ये वंशानां निर्माणे राष्ट्राणां दिशानिर्धारणे च अमिटा शक्तिः निहिता अस्ति। सः वैचारिक–सांस्कृतिक–ऐतिहासिक–वृत्तान्तान् प्रलेखयन्तीनां दुर्लभ–मूल्यवान्–कृतीनां समृद्ध–संग्रहस्य निर्माणाय भाजपापक्षस्य पुस्तकालय–विभागस्य प्रशंसां अकरोत्। तेन उक्तं यत् एतादृशा: प्रयत्ना: जम्मू–कश्मीरस्य बौद्धिक–परम्परायाः संरक्षणे राष्ट्रवादी–चिन्तनस्य आधारं दृढीकर्तुं च महत्त्वपूर्णां भूमिकां वहन्ति।
लेखकस्य अथक–प्रयत्नानां प्रशंसां कुर्वन् सत–शर्मा अपि अवदत् यत् एतत् पुस्तकं क्षेत्रस्य ऐतिहासिक–सांस्कृतिक–विकासस्य व्यापकं दृष्टिकोणं प्रस्तौति तथा च यूनां कृते स्वकीय–सभ्यतागत–मूलानां अवबोधे मार्गदर्शकरूपेण कार्यं करिष्यति।
सः एतदपि बलपूर्वकं अवदत् यत् हिन्दुत्वं केवलं विश्वास–प्रणाली न, अपि तु एकां व्यापकां सांस्कृतिकीं भौगोलिकीं च परिचय: अस्ति, या ऐतिहासिकरूपेण क्षेत्रस्य विविध–समुदायान् एकीकृतवती। भारतस्य प्रधानमन्त्रिण: नरेन्द्रमोदीन: नेतृत्वं स्वीकृत्य सत–शर्मा अवदत् यत् मोदी–सर्वकारस्य अधीनं जम्मू–कश्मीरस्य एव न, अपि तु सम्पूर्ण–राष्ट्रस्य सांस्कृतिक–ऐतिहासिक–परम्परायाः पुनर्जीवनाय, संरक्षणाय, प्रवर्धनाय च अभूतपूर्वाः प्रयासाः कृताः सन्ति। तेन उक्तं यत् परम्परा–स्थलानां जीर्णोद्धारः, स्वदेशी–परम्पराणां प्रोत्साहनम् तथा राष्ट्रीय–एकतायाः सुदृढीकरणाय आरब्धाः प्रयत्ना: सर्वकारस्य सांस्कृतिक–पुनर्जागरणे प्रतिबद्धतां प्रदर्शयन्ति।
लेखकः एस.के.–शर्मा स्वकीय–कृतेः विषये वदन् अवदत् यत् एतत् पुस्तकम् एकता–भौगोलिक–एकीकरणयोः सन्देशं ददाति तथा च युवा–वंशं स्व–मूलैः सह सम्बद्धं स्थापयितुं, सशक्त–सांस्कृतिकरूपेण एकीकृत–राष्ट्र–निर्माणे च सामूहिकं योगदानं दातुं प्रेरयति।
हिन्दुस्थान समाचार / अंशु गुप्ता