ओडिशायाः मुख्यमंत्री मोहन माझी परीक्षार्थिभ्याेऽददात् शुभकामनाः
भुवनेश्वरम्, 19 फ़रवरीमासः (हि.स.)। मोहन माझी ओडिशाराज्यस्य मुख्यमन्त्री ओडिशा माध्यमिक शिक्षा परिषद् द्वारा आयोजितायां दशमकक्षाया बोर्डपरीक्षायां सहभागीभ्यः सर्वेभ्यः छात्रेभ्यः हार्दिकाः शुभकामनाः आशीर्वादांश्च दत्तवान्। मुख्यमन्त्री अवदत् यत्
मुख्यमंत्री मोहन चरण माझी फाइल फोटोद


भुवनेश्वरम्, 19 फ़रवरीमासः (हि.स.)।

मोहन माझी ओडिशाराज्यस्य मुख्यमन्त्री ओडिशा माध्यमिक शिक्षा परिषद् द्वारा आयोजितायां दशमकक्षाया बोर्डपरीक्षायां सहभागीभ्यः सर्वेभ्यः छात्रेभ्यः हार्दिकाः शुभकामनाः आशीर्वादांश्च दत्तवान्।

मुख्यमन्त्री अवदत् यत् एषा परीक्षा केवलं शैक्षणिकमूल्यांकनं नास्ति, अपि तु छात्राणां धैर्यस्य संयमस्य आत्मविश्वासस्य च वास्तविकमूल्यांकनम् अपि अस्ति। सः छात्रान् प्रति आग्रहं कृतवान् यत् ते कस्यापि मानसिकदबावस्य अधीनाः न भवित्वा सकारात्मकदृष्ट्या दृढसंकल्पेन च परीक्षाकेन्द्रेषु उपस्थिताः स्युः, यतः शांतं मनः अडिगविश्वासश्च उत्कृष्टप्रदर्शनस्य कुञ्जिका स्तः।

सः उक्तवान् यत् छात्राणां निरन्तरप्रयत्नः समर्पणं च निश्चितरूपेण सफलपरिणामं दास्यति तथा तेषां अपेक्षाभ्यः अपि अधिकां सफलतां प्रदास्यति। अन्ते मुख्यमन्त्री सर्वेषां परीक्षार्थिनां उत्कृष्टप्रदर्शनस्य उज्ज्वलस्य सफलभविष्यस्य च शुभकामनाः व्यक्तवान्।

---------------

हिन्दुस्थान समाचार