Enter your Email Address to subscribe to our newsletters

मण्डीनगरम्, १९ फरवरीमासः (हि.स.)। अन्ताराष्ट्रिय–शिवरात्रि–महोत्सवस्य उपलक्ष्ये मेलापक–समित्या तथा मण्डी–जनपद–प्रशासनेन नगर–निगम–मण्डी–सहयोगेन लघू–काशी मण्डी–नगरे प्रथमवारं आयोजितस्य मण्डी–कला–महोत्सवस्य अन्तर्गतं भित्ति–चित्रण–प्रतियोगिता आयोजिता। द्विदिवसीयायां अस्यां प्रतियोगितायां कलाकारैः इन्दिरा–मार्केट तथा उपायुक्त–कार्यालय–मार्गस्य समीपे सार्वजनिक–भित्तिषु मण्डी–संस्कृतेः, देव–परम्परायाः इतिहासस्य च मनोहराणि भित्ति–चित्राणि निर्मितानि।
महोत्सवस्य तृतीयायां सांस्कृतिक–सन्ध्यायां उपायुक्तः अपुर्व–देवगनः तथा नगर–निगम–महापौरः वीरेन्द्र–भट्टः विजेतृ–दलान् नगद–पुरस्कारैः पुरस्कृतवन्तौ। प्रतियोगितायां सोलन–नगरस्य यश–ठाकुरः तथा विकास–खामः इत्येतयोः दलेन प्रथमस्थानं प्राप्तम्।
द्वितीयस्थानं हिमाचलप्रदेश-विश्वविद्यालय–सम्बद्धयोः वृष्टि–गिस्टः तथा अश्वनी–राणा इत्येतयोः दलाय प्राप्तम्, तृतीयस्थानं तु मण्डी–नगरस्य रिद्धि–सुयालः तथा गौरव–शर्मा इत्येतयोः दलं अवाप्तवान्। प्रतियोगितायां सहभागिन: सर्वाणि अन्यानि दलानि सान्त्वन–पुरस्कारैः सम्मानितानि।
निर्णायक–मण्डले प्रवीण–रावतः तथा राजेश–कुमारः समाविष्टौ आस्ताम्। ताभ्यां कलात्मक–अभिव्यक्तेः, विषय–प्रस्तुतेः, वर्ण–संयोजनस्य, सर्जनात्मकतायाः तथा स्थानीय–सांस्कृतिक–तत्त्वानां प्रभावी–प्रदर्शनस्य आधारेण मूल्याङ्कनं कृतम्।
उपायुक्तः अपूर्व–देवगनः अवदत् यत् शिवरात्रि–महोत्सवे दृश्य–कलानां प्रथमवारं समावेशनं प्रशंसनीयं प्रयत्नम् अस्ति; अनेन नगरस्य सौन्दर्य–वृद्धिः अभवत्, युवभ्यः च स्व–प्रतिभा–प्रदर्शनस्य अवसरः लब्धः। अस्मिन् अवसरे नगर–निगम–आयुक्तः रोहित–राठौरः, सहायक–आयुक्तः विजय–कुमारः तथा अन्ये अधिकारिणः पार्षदाश्च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता