कृत्रिमबुद्धिमत्तायां पारदर्शिता आवश्यकी, भूयात्सर्वेषां हितस्य सुखस्य च साधनम् - प्रधानमंत्री
नव दिल्ली, 19 फ़रवरीमासः (हि.स.)। भारतस्य प्रधानमन्त्रिणा नरेंद्रमोदिना गुरुवासरे एआई शिखर सम्मेलने विश्वसमक्षं “सर्वजनहिताय सर्वजनसुखाय” इति भारतीयमानदण्डः प्रस्तुतः। सः उक्तवान् यत् केचन देशाः कम्पन्यश्च एआई तन्त्रज्ञानं रणनीतिसाधनरूपेण उपयो
एआई सम्मेलन को संबोधित करते प्रधानमंत्री


नव दिल्ली, 19 फ़रवरीमासः (हि.स.)।

भारतस्य प्रधानमन्त्रिणा नरेंद्रमोदिना गुरुवासरे एआई शिखर सम्मेलने विश्वसमक्षं “सर्वजनहिताय सर्वजनसुखाय” इति भारतीयमानदण्डः प्रस्तुतः। सः उक्तवान् यत् केचन देशाः कम्पन्यश्च एआई तन्त्रज्ञानं रणनीतिसाधनरूपेण उपयोजयितुम् इच्छन्ति, किन्तु भारतस्य मतम् अस्ति यत् एआई क्षेत्रे पारदर्शिता सर्वाधिकमहत्त्वपूर्णा अस्ति।

प्रधानमन्त्रिणा उक्तं — “अद्य अस्माभिः एषः संकल्पः कर्तव्यः यत् एआई तन्त्रज्ञानं वैश्विककल्याणस्य साधनरूपेण विकसितं भविष्यति।”

विश्वस्य विंशतिदेशानां नेतॄणां पञ्चचत्वारिंशद्देशानां मन्त्रिणां च सन्निधौ प्रधानमन्त्रिणा एआई सम्बन्धितः ‘मानव’ इति दृष्टिकोणः प्रस्तुतः। ‘मानव’ इत्यस्य अर्थः — म् (नैतिकव्यवस्था), अ (उत्तरदायिशासनम्), न् (राष्ट्रियसार्वभौमत्वम्), अ (सुगमसमावेशीप्रवेशः), व् (वैधप्रमाणिकव्यवस्था) इति।

प्रधानमन्त्रिणा डीपफेक् इत्यादीनां वर्तमानचुनौतिनां उल्लेखः कृतः। यथा खाद्यपदार्थेषु अन्तर्गतवस्तूनां विवरणलेखः भवति, तथैव डिजिटलजगति अपि स्पष्टलेबलिंग् अत्यावश्यकी इति उक्तम्।

एआई तन्त्रज्ञानं मानवइतिहासस्य अद्यावधि सर्वाधिकपरिवर्तनकारी नवोन्मेषः इति निर्दिश्य प्रधानमन्त्रिणा उक्तं यत् अस्य वेगः व्यापकताच पूर्वेषां सर्वेषां नवाचाराणां अपेक्षया अधिका अस्ति। अतः तस्य संभाव्यविनाशकारीप्रभावेभ्यः रक्षणं कर्तव्यम्।

विकासशीलदेशानां प्रतिनिधित्वं कुर्वन् प्रधानमन्त्रिणा उक्तं यत् एआई तन्त्रज्ञानस्य लोकतंत्रीकरणं भवेत्, तत् समावेशी सशक्तिकरणस्य च साधनरूपेण विकसितं वर्तते।

हिन्दुस्थान समाचार