Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १९ फरवरीमास: (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे एआई-इम्पैक्ट-शिखरवार्तायाम् वैश्विक-नेतृणां समक्षं कृत्रिम-बुद्धेः (एआई) नैतिक-उपयोगं प्रति त्रीन् महत्त्वपूर्णान् विषयान् प्रस्तुतवान्। तेषु दत्तांश-स्वायत्तता, पारदर्शिनः नियमाः तथा मानवीय-मूल्येषु आधारितः विकासः प्रमुखतया निर्दिष्टाः।
शिखर-सम्मेलनस्य पूर्ण-सत्रे प्रारम्भिक-वक्तव्ये प्रधानमन्त्रिणा विश्वासः व्यक्तः यत् एतत् सम्मेलनं वैश्विक-एआई-इकोसिस्टम-निर्माणे महत्त्वपूर्णां भूमिकां निर्वहिष्यति। सः अवदत्—वयं सर्वे मिलित्वा एतत् ‘डिसरप्शन’ मानवतायाः महान् अवसरः कर्तुं शक्नुमः। नैतिक-उपयोग-विषये सः अवदत् यत् दत्तांशस्य स्वामित्व-अधिकारः सम्माननीयः, एआई-प्रशिक्षणाय सम्यक् दत्तांश-नमूना (डेटा-फ्रेमवर्क) निर्मेया, दत्तांशः सुरक्षितः, सन्तुलितः, विश्वसनीयश्च भवेत्; अतः वैश्विकी विश्वसनीय-दत्तांश-नमूना (ग्लोबल ट्रस्टेड डेटा फ्रेमवर्क) अत्यावश्यकी।
प्रधानमन्त्रिणा अपि उक्तं यत् एआई-पटलै: स्व-सुरक्षा-नियमाः स्पष्टाः पारदर्शिनश्च स्थापनीयाः। ‘ब्लैक-बॉक्स’-पद्धतेः स्थाने ‘ग्लास-बॉक्स’-पद्धतिः अपेक्षिता—यत्र सुरक्षा-नियमा: द्रष्टुं सत्यापयितुं च शक्यन्ते; तदा उत्तरदायित्वं स्पष्टं भवति तथा व्यवसायेषु नैतिक-आचरणस्य संवर्धनं भवति। एआई-अनुसन्धानस्य सन्दर्भे ‘पेपर-क्लिप-समस्या’ इत्यस्या: उदाहरणं दत्त्वा सः अवदत् यत् एआई-प्रणालीनां स्पष्ट-मानवीय-मूल्यानि तथा मार्गदर्शनं आवश्यकम्—प्रौद्योगिकी शक्तिशाली, किन्तु दिशानिर्देशः सदा मानवैः एव निश्चेतव्यः।
सः अवदत् यत् एआई-क्षेत्रे नैतिक-व्यवहारस्य परिधिः विशालः; अतः एआई-निमित्तं नैतिक-मानकानां परिधिरपि विस्तीर्णा भवितव्या। एआई-निर्माणिनां महान्तं उत्तरदायित्वं वर्तते— लाभेन सह उद्देश्ये अपि ध्यानं दातव्यम्। भारतस्य दृष्ट्या प्रौद्योगिकी शक्तेः साधनं न, किन्तु सेवायाः माध्यमम्—“पावर् न, अपि तु एंपावर्।” एआई-दिशा अपि समग्र-मानवता-कल्याणाभिमुखी भवेत्।
प्रधानमन्त्रिणा स्मारितं यत् भारतं बुद्धस्य भूमिः, यत्र भगवान् बुद्धः उक्तवान्—“Right action comes from right understanding।” अतः एआई-विषये सम्यक् प्रभावाय संयुक्तं मार्गचित्रं (रोडमैप) निर्मेयम्— यत् सम्यक् काले, सम्यक् नियतेः, सम्यक् निर्णयैः एव सिद्ध्यति।
कोविड्-वैश्विक-महामारीम् उदाहरणं दत्त्वा सः अवदत् यत् परस्पर-सहयोगेन असम्भवमपि सम्भवं भवति—वैक्सीन-विकासात् आरभ्य आपूर्ति-श्रृङ्खलापर्यन्तं, दत्तांश-साझेदारीतः जीव-रक्षणपर्यन्तं सहकार्येणैव समाधानं प्राप्तम्। भारतस्य कोविड्-काले प्रौद्योगिकी कथं मानवतायाः सेवायाः माध्यमं भवति—इदं प्रत्यक्षं दृष्टम्। पूर्वं प्रौद्योगिकी कदाचित् भेदभावस्य कारणं अभवत्; अधुना तु एआई सर्वेभ्यः सुलभं सुलङ्घ्यं च कर्तव्यम्। वैश्विक-दक्षिण-राष्ट्राणां आकाङ्क्षाः प्राथमिकताश्च एआई-शासनस्य केन्द्रे स्थापनीयाः।
अन्ते प्रधानमन्त्रिणा उक्तं यत् आकाङ्क्षी-भारत-एआई (Aspirational India AI) इत्यस्य वैश्विक-एआई-यात्रायां महती भूमिका रेखाङ्किता। सः अवदत् यत् अस्य दायित्वस्य बोधेन भारतः दृढ-पदानि गृह्णाति—एआई-अभियानस्य माध्यमेन अद्य भारतस्य ३८,००० जीपीयू-क्षमता उपलब्धा अस्ति; अग्रिम-षड्-मासेषु २४,००० जीपीयू-क्षमतायाः अधिक-संवर्धनं भविष्यति। स्टार्टअप्स-निमित्तं विश्वस्तरीया संगणन-क्षमता अल्प-व्यये प्रदीयते। ‘एआई-कोषः’ अपि निर्मितः, यस्य माध्यमेन ७,५०० अधिकाः दत्तांश-समुच्चयाः तथा २७० एआई-नमूना: राष्ट्रीय-संसाधनरूपेण सहभागी कृताः।
हिन्दुस्थान समाचार / अंशु गुप्ता