प्रधानमन्त्री नरेन्द्र-मोदीना सह वैश्विक-नेतृणां तथा विश्वस्य शीर्ष-सीईओ-इत्यादिनां सामूहिकं स्मरणीयं चित्रम्
नवदिल्ली, १९ फरवरीमास: (हि.स.)।भारत-मण्डपम्-मध्ये आयोजिते इण्डिया-एआई-शिखर-सम्मेलने वैश्विक-नेतृभिः तथा विश्वस्य शीर्ष-सीईओ-इत्यादिभिः सह नरेन्द्रमोदी स्मरणीयं सामूहिकं चित्रं गृहीतवान्। अस्मिन् अवसरे प्रधानमन्त्रिणा सह ये प्रमुखा विश्व-नेतारः उपस
प्रधानमंत्री वैश्विक नेताओं और शीर्ष सीईओ के साथ समूह तस्वीर के दौरान।


नवदिल्ली, १९ फरवरीमास: (हि.स.)।भारत-मण्डपम्-मध्ये आयोजिते इण्डिया-एआई-शिखर-सम्मेलने वैश्विक-नेतृभिः तथा विश्वस्य शीर्ष-सीईओ-इत्यादिभिः सह नरेन्द्रमोदी स्मरणीयं सामूहिकं चित्रं गृहीतवान्।

अस्मिन् अवसरे प्रधानमन्त्रिणा सह ये प्रमुखा विश्व-नेतारः उपस्थिताः आसन्—इमैनुएल-मैक्रों, लुइज-इनासियो लूला दा सिल्वा, त्शेरिंग तोबगे, खालिद-बिन&मोहम्मद-बिन-जायद-अल-नाहयान, अनुरा कुमारा दिसानायके, डिक शूफ, किरियाकोस मित्सोटाकिस, गाइ पार्मेलिन, पेटेरी ओरपो तथा एलारकारिस: इतृयादय:।

तदनन्तरं प्रौद्योगिकी-जगतः प्रमुखा: अपि उपस्थिताः आसन्—सुंदर: पिचाई, सैम ऑल्टमैन, डारियो अमोदेई अन्ये च। शिखर-सम्मेलनावसरे प्रधानमन्त्रिणा अनेकैः विश्व-नेतृभिः सह द्विपक्षीय-वार्तालापाः कृताः, विविध-देशानां स्थानानां च अवलोकनं कृतम्। तेन कृत्रिम-बुद्धेः जन-केन्द्रित-शासनस्य आवश्यकता विशेषतया प्रतिपादिता।

सामाजिक-माध्यमेषु एतत् चित्रं सहभागं कृत्वा प्रधानमन्त्री अवदत् यत् कृत्रिम-बुद्धिः “समावेशी-विकासस्य शक्तिः” अस्ति, या नागरिकान् सशक्तान् कर्तुं शक्नोति तथा भारतस्य वैश्विक-नेतृत्वं सुदृढं करोति। सः अलिखत् यत् दिल्ली-स्थितं एआई-शिखर-सम्मेलनं कृत्रिम-बुद्धि-जगतः दिग्गजान् एकत्र आनयत्, यत्र शताधिक-देशानां प्रतिनिधित्वं आसीत् तथा विश्वस्य सर्वेभ्यः कोणेभ्यः विशिष्टाः प्रतिभागिनः सम्मिलिताः। अस्य सम्मेलनस्य उद्देश्यम् एकं एव- ग्रहस्य कल्याणाय कृत्रिम-बुद्धेः शक्तेः लाभः सर्वैः प्राप्तव्यः।

हिन्दुस्थान समाचार / अंशु गुप्ता