Enter your Email Address to subscribe to our newsletters

कोरबानगरम्, १९ फरवरीमासः (हि.स.)। कोरबा–निवासी बलराम–कुम्भकारः स्वीयेन परिश्रमेण तथा शासकीय–योजनानां समुचित–उपयोगेन स्वस्य पारम्परिकं सौचिक–व्यवसायं नूतनां दिशां नूतनं च परिचयं प्रदत्तवान्। हितग्राही बलरामः छत्तीसगढ–शासनस्य पीएम–विश्वकर्मा–योजनान्तर्गतं कोरबा–स्थिते लाइवलीहुड–महाविद्यालये सौचिक–व्यवसाय–सम्बद्धे (टेलर–ट्रेड) कौशल–विकास–प्रशिक्षणस्य आरम्भं कृतवान्।
प्रारम्भे सः सप्तदिवसीयं मूल–प्रशिक्षणं सफलतया समापितवान्, तदनन्तरं शासनद्वारा तस्मै चतुर्सहस्र–रूप्यकाणां (४,०००) प्रोत्साहन–राशिः प्रदत्ता। स्वव्यवसायस्य विस्तारार्थं तस्मै कमपि प्रत्याभूतिकर्तारं विना एकलक्ष–रूप्यकाणां (१,००,०००) ऋणं अपि उपलब्धं जातम्, यस्य उपयोगेन सः स्वकार्य–स्थलम् आधुनिकं सुसज्जितं च अकरोत्।
अधुना हितग्राही बलरामः स्वदक्षतां अधिकं परिष्कर्तुं पञ्चदश–दिवसीयं उन्नत–प्रशिक्षणं प्राप्नोति। अस्मिन् प्रशिक्षणे सः नवीन–आकृतयः, आधुनिक–उपकरणानि तथा उन्नत–प्रौद्योगिकी–विधयः उपयोजयितुं शिक्षते, येन तस्य पारम्परिकः व्यवसायः नूतनं बलं वेगं च प्राप्नोति। अस्य उन्नत–प्रशिक्षण–क्रमे तस्मै प्रतिदिनं पञ्चशत–रूप्यकाणां (५००) दरेण समष्ट्या सप्तसहस्र–पञ्चशत–रूप्यकाणि (७,५००) प्रोत्साहन–रूपेण, सहस्र–रूप्यकाणां (१,०००) यात्रा–भाटकं च प्रदीयते।
भविष्यं प्रति लाभार्थी अत्यन्तं उत्साहितः अस्ति। सः विश्वसिति यत् प्रशिक्षण–समाप्तौ प्राप्ता द्विलक्ष–रूप्यक–पर्यन्ता (२,००,०००) प्रत्याभूतिकर्ता–रहिता ऋण–सुविधा तस्य व्यवसायं नूतनां उच्चतां प्रति नेष्यति। तस्य मतम् अस्ति यत् लाइवलीहुड–महाविद्यालयात् प्राप्तं शिक्षणं तथा वित्तीय–सहायता च तस्य जीवने आत्मनिर्भरत्वस्य नूतनां ज्योतिं प्रज्वालितवती।
हिन्दुस्थान–समाचार:/ हरिश–तिवारी
हिन्दुस्थान समाचार / अंशु गुप्ता