प्रधानमंत्री छत्रपति शिवाजी महाराजस्य जयंत्यामददात् श्रद्धांजलिम्
नवदिल्ली, 19 फ़रवरीमासः (हि.स.)। भारतस्य प्रधानमन्त्रिणा मोदिना शिवाजीमहाराजस्य जयंतीअवसरे तस्मै श्रद्धाञ्जलिः अर्पिता। सः तं दूरदर्शिनं नेतारं, उत्कृष्टं प्रशासकं, कुशलं रणनीतिकारं स्वराजस्य महान्तं समर्थकं च इति स्मृतवान्। ‘एक्स’ नाम सामाजिकम
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)।


नवदिल्ली, 19 फ़रवरीमासः (हि.स.)।

भारतस्य प्रधानमन्त्रिणा मोदिना शिवाजीमहाराजस्य जयंतीअवसरे तस्मै श्रद्धाञ्जलिः अर्पिता। सः तं दूरदर्शिनं नेतारं, उत्कृष्टं प्रशासकं, कुशलं रणनीतिकारं स्वराजस्य महान्तं समर्थकं च इति स्मृतवान्।

‘एक्स’ नाम सामाजिकमाध्यममञ्चे स्वसन्देशे प्रधानमन्त्रिणा उक्तं यत् शिवाजीमहाराजस्य जयंतीदिने वयं तं दूरदर्शिनं नेतारं, श्रेष्ठं प्रशासकं, अद्वितीयं रणनीतिकारं स्वराजस्य महानायकं च प्रणमामः। तस्य साहसं अस्मान् प्रेरयतु, तस्य सुशासनं अस्माकं मार्गं दर्शयतु, न्यायआत्मसम्मानयोः तस्य भावना अस्माकं समाजं सशक्तं करोतु।

सः अपि उक्तवान् यत् शिवाजीमहाराजस्य पराक्रमः अद्यापि सर्वान् प्रेरयति। तस्य सुशासनं अद्यतनकाले अपि मार्गदर्शकम् अस्ति, न्यायआत्मगौरवभावना च समाजं दृढं करोति।

प्रधानमन्त्रिणा एतस्मिन् अपि बलं दत्तं यत् शिवाजीमहाराजः सर्वदा प्रत्येकस्य जनस्य कल्याणं सर्वोपरि मन्यते स्म, तेषां रक्षणाय आत्मानं समर्पितवान्। अत एव तस्य जीवनं पीढीपरम्परया भारतदेशस्य प्रेरणास्रोतः अभवत् अस्ति च।

---------------

हिन्दुस्थान समाचार