शिवाजी महाराजस्य 396तमायां जयंत्याममद्य आगरादुर्गे गूंजिष्यति छत्रपतेः शौर्यगाथा
आगरा, 19 फ़रवरीमासः (हि.स.)। छत्रपति शिवाजी महाराजस्य ३९६तमायाः जयन्त्याः अवसरे गुरुवासरे सायं षड्वादनात् रात्रौ दशवादनपर्यन्तं तस्य शौर्यगाथायाः आयोजनं भविष्यति। अस्मिन् कार्यक्रमे राजस्थानस्य राज्यपालः हरिभाऊ किशन राव बागडे, महाराष्ट्रस्य मुख्य
शिवाजी महाराज की जयंती


आगरा, 19 फ़रवरीमासः (हि.स.)।

छत्रपति शिवाजी महाराजस्य ३९६तमायाः जयन्त्याः अवसरे गुरुवासरे सायं षड्वादनात् रात्रौ दशवादनपर्यन्तं तस्य शौर्यगाथायाः आयोजनं भविष्यति। अस्मिन् कार्यक्रमे राजस्थानस्य राज्यपालः हरिभाऊ किशन राव बागडे, महाराष्ट्रस्य मुख्यमन्त्री देवेंद्र फडणवीस, अपि च केन्द्रीयमन्त्रीणः अन्ये प्रमुखजनाश्च सहभागी भविष्यन्ति।

अयं समारोहः अजिंक्य देवगिरी प्रतिष्ठान अध्यक्षस्य विनोद पाटिल तथा अमर विनायक लोखण्डे इत्येतयोः संयुक्तपर्यवेक्षणे रकाबगञ्जथानाक्षेत्रे आगरा किला अन्तर्गत दीवानएआम् प्राङ्गणे आयोजितः भविष्यति। अयं कार्यक्रमः निरन्तरं चतुर्थवर्षे आयोज्यते।

कार्यक्रमस्य प्रत्यक्षप्रसारणार्थं रकाबगञ्जथानाक्षेत्रे आगरा किलस्य सम्मुखे रामलीलामैदानपार्किङ्स्थले विशालएलईडीपट्टिका ध्वनिप्रणाली च स्थापिते स्तः।

अस्मिन् कार्यक्रमे सहभागी भवितुं महाराष्ट्रस्य मुख्यमन्त्री देवेंद्रफडणवीस छत्रपति शिवाजी महाराज अंताराष्ट्रियविमानस्थानमुम्बईतः विशेषविमानेन प्रस्थित्य सायं प्रायः षडर्धवादने आगरा सिविल एयरपोर्ट आगमिष्यति। ततः सः प्रत्यक्षं कार्यक्रमस्थलं गमिष्यति। रात्रौ एव सः दिल्लीं प्रति प्रस्थानं करिष्यति।

अस्मिन् शौर्यगाथाकार्यक्रमे राजस्थानराज्यपालः हरिभाऊकिशनरावबागडे, महाराष्ट्रस्य उपमुख्यमन्त्री एकनाथ शिंदे, केन्द्रीयजलशक्तिमन्त्री सी आर पाटिल, केन्द्रीयराज्यमन्त्री एस पी सिंह बघेल, उत्तरप्रदेशस्य मन्त्रिमण्डले मन्त्री योगेंद्र उपाध्याय, आग्रानगरस्य सांसदाः, विधायकाः, जिलापञ्चायताध्यक्षाः, राज्यसभाविधानपरिषद्सदस्याश्च अपि सहभागं करिष्यन्ति। कार्यक्रमे केवलं प्रवेशपत्रधारिणः एव प्रवेक्ष्यन्ते।

अजिंक्यदेवगिरिप्रतिष्ठानस्य अध्यक्षः विनोदपाटिल उक्तवान् यत् आग्रानगरे शिवाजीमहाराजस्य भाविस्मारकनिर्माणाय महाराष्ट्रस्य मुख्यमन्त्री देवेंद्रफडणवीस अनुमतिं दत्तवान्। अद्य आगरा किले कार्यक्रमे शिवाजीमहाराजस्य प्रायः त्रिसहस्राणि अनुयायिनः एकत्रिताः भविष्यन्ति। अस्य कार्यक्रमस्य सामाजिकमाध्यमैः माध्यमेन विश्वव्यापि प्रत्यक्षप्रसारणं भविष्यति।

अस्मिन् कार्यक्रमे विशिष्टजनसमागमं जनसमूहं च दृष्ट्वा स्थानीयप्रशासनपुलिसविभागाभ्यां सुरक्षा यातायातव्यवस्थापनार्थं सम्यक् प्रबन्धान् कृतवन्तौ।

---------------

हिन्दुस्थान समाचार