Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 19 फरवरीमासः (हि.स.)।
नरेंद्र मोदी गुरौ दिवसे एआई शिखरसम्मेलने विश्वस्य समक्षं भारतस्य “सर्वजनहिताय सर्वजनसुखाय” इति मानदण्डं प्रस्तुतवान्। सः अवदत् यत् केचन देशाः कम्पनीश्च कृत्रिमबुद्धिं रणनीतिरूपेण उपयोगयितुं चिन्तयन्ति। भारतस्य मतम् अस्ति यत् कृत्रिमबुद्धेः क्षेत्रे पारदर्शिता अत्यन्तमहत्त्वपूर्णा अस्ति।
अद्य नरेन्द्रमोदी नवीदिल्लीस्थे भारतमण्डपम् इत्यत्र ‘इंडिया एआई इम्पैक्ट समिट्’ इत्यस्य उद्घाटनं कृतवान्। एतत् विश्वस्य महत्तमं ऐतिहासिकं च एआई इम्पैक्ट समिट् इति निर्दिश्य सः उक्तवान् यत् अद्य अस्माभिः एषः संकल्पः कर्तव्यः यत् कृत्रिमबुद्धिः वैश्विककल्याणरूपेण विकसितव्या। तेन ‘मानव’ इति एआईदृष्टिः प्रस्तुतः। ‘मानव’ इत्यस्य अर्थः— एम् नैतिकनीतिपरकप्रणाली, ए उत्तरदायीशासनम्, एन राष्ट्रीयसार्वभौमत्वम्, ए सुलभसमावेशिता, वी वैधतासत्यापनयोग्यता।
अस्मिन् कार्यक्रमे इमैनुएल मैक्रों सहितं राष्ट्राध्यक्षाः, मन्त्रीगणाः, बहुपक्षीयसंस्थानां वरिष्ठप्रतिनिधयः, प्रौद्योगिकीएआईउद्योगनेतारः च उपस्थिताः आसन्।
प्रधानमन्त्री अवदत् यत् कृत्रिमबुद्धिः नैतिकदिशानिर्देशाधारितैः प्रणालिभिः नियन्त्रिता भवेत्। उत्तरदायीशासनस्य अर्थः पारदर्शिनियमाः सशक्तनिगराणी च। राष्ट्रीयसार्वभौमत्वेन दत्तांशस्य स्वामित्वं सम्बद्धदेशस्य इति बोध्यते। सुलभसमावेशितया कृत्रिमबुद्धिः एकाधिकाररूपेण न, अपि तु गुणकशक्तिरूपेण भवेत्। वैधतासत्यापनयोग्यतया सा विधिसम्मता परीक्ष्ययोग्या च भवेत्।
महाविजनस्य उत्तरदायित्वस्य च वहनाय आह्वानं कुर्वन् सः अवदत् यत् केवलं वर्तमानपीढ्याः न, अपि तु आगामिपीढीनां कृते अपि अस्माभिः चिन्तनीयम् यत् किम्रूपां कृत्रिमबुद्धिं तेषां हस्ते समर्पयिष्यामः। अद्य प्रमुखप्रश्नः न यत् भविष्ये एआई किं करिष्यति, किन्तु वयं अधुना एआई सह किं कुर्मः। अस्माभिः मशीनकेन्द्रितात् मानवकेन्द्रितां संवेदनशीलां उत्तरदायीं च एआई निर्मातव्या।
सः अवदत् यत् अद्य विश्वे द्विविधाः जनाः सन्ति— ये एआई विषये भयम् अनुभवन्ति, अन्ये ये एआई मध्ये भाग्यम् पश्यन्ति। अहं गर्वेण उत्तरदायित्वेन च वदामि यत् भारतं भयम् न पश्यति, अपि तु एआई मध्ये भाग्यं भविष्यं च पश्यति।
प्रधानमन्त्री डीपफेकादीनां चुनौतिनां उल्लेखं कृत्वा उक्तवान् यत् यथा खाद्यपदार्थेषु तेषां सामग्रीसूचना लिप्यते, तथैव डिजिटलजगति अपि लेबलिङ् अत्यावश्यकम्। सः कृत्रिमबुद्धिं मानवइतिहासस्य अत्यन्तपरिवर्तनकारी नवाचारः इति वर्णयन् उक्तवान् यत् अस्य वेगः विस्तारश्च पूर्वनवाचारात् अधिकः। अतः अस्य विनाशकारीप्रभावान् अपि निरोद्धुं आवश्यकम्।
सः अवदत् यत् कृत्रिमबुद्धेः मुक्तप्रवाहः भवेत्, किन्तु जीपीएस इव नियन्त्रणं अस्माकं हस्ते भवेत्। एआई नूतनरोजगारसृजनाय कारणं भविष्यति। ‘ग्लोबल साउथ’ राष्ट्राणां प्रतिनिधित्वं कुर्वन् सः उक्तवान् यत् एआई लोकतन्त्रीकरणं कर्तव्यं, समावेशिसशक्तिकरणस्य माध्यमं च भवेत्। मनुष्याः केवलं दत्तांशरूपेण न अवशेषितव्याः।
प्रधानमन्त्री भारतस्य एआईसमावेशीकरणलोकतन्त्रीकरणप्रयत्नान् अपि निर्दिष्टवान्। सः अवदत् यत् भारतः अर्धचालकचिपनिर्माणात् क्वाण्टमसंगणनपर्यन्तं सुदृढपरिसंस्थां निर्माति। सुरक्षितदत्तांशकेन्द्राणि, सुदृढआइटीसंरचना, गतिशीलस्टार्टअपपरिसंस्था च भारतं किफायतीविस्तारणीयसुरक्षितएआईसमाधानानां स्वाभाविककेन्द्रं कुर्वन्ति।
सः पुनः बलं दत्त्वा अवदत् यत् भारतदेशे विविधता, जनसांख्यिकी, लोकतन्त्रं च विद्यमानम्। भारतदेशे सफलः कश्चन एआईमॉडेलः वैश्विकस्तरे अपि प्रयोजनीयः भविष्यति। भारतस्य प्रतिभा ऊर्जाक्षमता नीतिस्पष्टता च अस्ति। भारतः मानवजातेर् षष्ठांशस्य प्रतिनिधित्वं करोति। अत्र विश्वस्य महत्तमा युवा आबादी विशालं प्रौद्योगिकीप्रतिभासञ्चयः समृद्धपरिसंस्था च वर्तते। चतुर्दशकोट्यधिकाः भारतीयाः नूतनप्रौद्योगिकीस्वीकाराय उत्सुकाः सन्ति।
अस्मिन् सम्मेलने त्रयः भारतीयसंस्थाः स्वीयान् एआईमॉडेल्स एप्स च लोकार्पितवन्तः। एते मॉडेलाः भारतीययुवानां प्रतिभां समाधानवैविध्यगौरवं च प्रतिबिम्बयन्ति। कृषिक्षेत्रे, सुरक्षाक्षेत्रे, दिव्याङ्गसहाय्ये, बहुभाषीजनेषु आवश्यकतानां पूर्तौ च प्रस्तुतानि ‘मेड इन इंडिया’ सामर्थ्यं भारतस्य नवोन्मेषशक्तिं च दर्शयन्ति।
नूतनप्रौद्योगिकयः प्रारम्भे संशयं जनयन्ति, किन्तु विश्वयुवानां वेगेन विश्वासेन च एआईस्वीकारः अद्वितीयः अस्ति। बालसंरक्षणस्य महत्त्वं निर्दिश्य सः उक्तवान् यत् यथा विद्यालयेषु पाठ्यक्रमाः निर्मीयन्ते, तथैव एआईक्षेत्रम् अपि बालानां कृते सुरक्षितं परिवारमार्गदर्शनेन सह भवेत्।
‘इंडिया एआई इम्पैक्ट समिट् २०२६’ इत्यस्य विषयः “सर्वजनहिताय सर्वजनसुखाय” अस्ति। अस्य लक्ष्यं भारतं एआईक्षेत्रे अग्रणीस्थानं स्थापयितुं तथा तादृशं भविष्यं कल्पयितुं यत्र कृत्रिमबुद्धिः मानवतां प्रगत्यै नयेत्, समावेशिविकासं प्रोत्साहयेत्, साझा भूमेः संरक्षणं च कुर्यात्।
अस्मिन् संमेलने ५०० अधिकाः वैश्विकएआईनेतारः, प्रायः १०० मुख्यकार्यकारीअधिकारी संस्थापकाः, १५० शिक्षाविदः शोधकर्तारः, ४०० अधिकाः प्रौद्योगिकीअधिकारी परोपकारिणः च सहभागी भविष्यन्ति। १०० अधिकाः शासकीयप्रतिनिधयः, २० अधिकाः राष्ट्राध्यक्षाः शासनप्रमुखाः, ६० अधिकाः मन्त्रीउपमन्त्रीगणाः च अस्मिन् सम्मेलने सम्मेलिष्यन्ति।
---------------
हिन्दुस्थान समाचार