Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 19 फ़रवरीमासः (हि.स.)।मराठासाम्राज्यस्य संस्थापकः हिन्दवीस्वराज्यस्य प्रणेता च छत्रपति शिवाजी महाराजस्य जयंतीअवसरे उपराष्ट्रपतिः सी पी राधाकृष्णन तथा विभिन्नदलानां शीर्षनेतारः तेषां अदम्यसाहसं दूरदर्शिनं नेतृत्वं जनकल्याणकारीशासनं च प्रणम्य तेषां आदर्शान् राष्ट्रनिर्माणस्य प्रेरणास्रोतोरूपेण निरूपितवन्तः।
उपराष्ट्रपतिना स्वसामाजिकमाध्यमसन्देशे शिवाजीमहाराजः स्वराज्यस्य वास्तुकारः धर्मस्य रक्षकः निर्भीकयोद्धा जनकेन्द्रितशासनस्य समर्थकः इति स्मृतः। सः उक्तवान् यत् तेषां जीवनं अद्यापि साहसस्य न्यायस्य निस्वार्थनेतृत्वस्य च प्रेरणां ददाति।
केन्द्रीयगृहमन्त्री अमित शाह उक्तवान् यत् शिवाजीमहाराजेन अल्पवयस्य एव हिन्दवीस्वराज्यस्थापनायाः संकल्पः कृतः तथा राष्ट्रस्य कणकणे स्वधर्मस्वराजस्वभाषाणां कृते जीवनमरणयोः जिजीविषा जागृता। तेन सर्वान् वर्गान् संगठ्य राष्ट्रसंस्कृतेः रक्षणार्थं सशक्तसेना निर्मिता।
लोकसभाध्यक्षः ओम् बिरला शिवाजीमहाराजं पराक्रमप्रजावत्सलतयोः दिव्यसंगमम् इति उक्तवान्। तेषां जीवनं स्वाभिमानस्य स्वर्णिमगाथा अस्ति या युगानुयुगं प्रेरणां दास्यति इति तेन निर्दिष्टम्।
केन्द्रीयसडकपरिवहनराजमार्गमन्त्री नितिन गडकरी मराठीभाषया श्रद्धाञ्जलिं समर्प्य “जानता राजा” इति संबोध्य नमनं कृतवान्।
रक्षामन्त्री राजनाथ सिंह उक्तवान् यत् शिवाजीमहाराजेन स्वपराक्रमेण कल्याणकारीशासनेन च स्वराज्यविचारः सुदृढीकृतः तथा प्रतिकूलपरिस्थितिष्वपि भारतसंस्कृतेः रक्षणं कृतम्।
भारतीयजनतापक्षस्य राष्ट्रीयाध्यक्षः नितिन नवीन शिवाजीमहाराजं अदम्यपराक्रमस्य प्रतीकः इति उक्तवान्। तेषां जीवनं राष्ट्रभक्तेः कर्तव्यस्य न्यायस्य च आदर्शरूपम् अस्ति इति तेन कथितम्।
काङ्ग्रेसपक्षस्य राष्ट्रीयाध्यक्षः मल्लिकार्जुन खरगे तम् महापराक्रमीं शूरवीरं कुशलप्रशासकं च इति निर्दिश्य देशवासिभ्यः शिवजयंतीशुभकामनाः दत्तवान्।
लोकसभायां प्रतिपक्षनेता राहुल गांधी शिवाजीमहाराजं शौर्यदूरदर्शितान्यायप्रियनेतृत्वस्य अद्वितीयप्रतीकः इति वर्णितवान्। तेषां जीवनम् अद्यापि अन्यायविरुद्धसंघर्षस्य प्रेरणां ददाति इति उक्तम्।
दिल्लीमुख्यमन्त्री रेखा गुप्ता शिवाजीमहाराजं हिन्दवीस्वराज्यस्य प्रणेता शौर्यशिखरपुरुषः इति स्मृतवती। तेषां जीवनं पराक्रमन्यायसुशासनानां अद्वितीयसमन्वयः अस्ति इति सा उक्तवती।
---------------
हिन्दुस्थान समाचार