यूजीसीविधेयकस्य विरोधे यति नरसिंहानंद गिरी शिष्यैः सह हिन्दू धर्माचार्याणाम् अकरोत् आह्वानम्
हरिद्वारम्, 19 फ़रवरीमासः (हि.स.)। शिवशक्ति धाम डासना-पीठाधीश्वरः तथा श्रीपंचदशनाम जूना अखाड़ा-महामण्डलेश्वरः यति नरसिंहानन्दगिरिमहाराजः विश्व धर्म संसद-मुख्यसंयोजिका डॉ उदिता त्यागी तथा स्वशिष्यैः — यति रामस्वरूपानन्दगिरिणा, यति रणसिंहानन्दगिरिणा
संतों का गंगा तट से आह्वान करते हुए


हरिद्वारम्, 19 फ़रवरीमासः (हि.स.)।

शिवशक्ति धाम डासना-पीठाधीश्वरः तथा श्रीपंचदशनाम जूना अखाड़ा-महामण्डलेश्वरः यति नरसिंहानन्दगिरिमहाराजः विश्व धर्म संसद-मुख्यसंयोजिका डॉ उदिता त्यागी तथा स्वशिष्यैः — यति रामस्वरूपानन्दगिरिणा, यति रणसिंहानन्दगिरिणा, यति अभयानन्दगिरिणा, यति परमात्मानन्दगिरिणा, योगी सरोजनाथेन, पण्डित सुनीलदत्तशर्मणा च सह सर्वानंद घाट, हरिद्वार-नगरस्थिते, यूजीसी-अधिनियमस्य विषये सन्तसमाजस्य मौनस्य विरोधार्थम् एकदिवसीयं उपवासम् अकरोत्।

तेन उक्तम् यत् संघः हिन्दू एकत्वस्य घोषणां करोति, भाजपा च सामाजिकसमरसतायाः वचनं ददाति, तर्हि अस्य यूजीसी-अधिनियमस्य किम् उद्देश्यम् अस्ति। किं मोदी-मोहनभागवतौ मिलित्वा तृप्तिकरणकार्ये संलग्नौ स्तः।

तेन अपि उक्तम् यत् मोदीमहाभागेन यूजीसी-माध्यमेन सामान्यवर्गीय-हिन्दीसमुदायस्य समूलनाशस्य कार्यं क्रियते। अधुना ब्राह्मण-क्षत्रिय-वैश्यानां यूजीसी-अधिनियमद्वारा समापनं कारयिष्यते, ततः अनन्तरं अवशिष्टाः हिन्दवः अपि तृप्तिकरणस्य भक्ष्याः भविष्यन्ति।

अनेन अपि उक्तम् यत् सनातनधर्मविनाशस्य महान् दोषः धर्माचार्याणाम् उपरि भविष्यति, ये केनचित् कारणेन अस्य अन्यायस्य किञ्चित् अपि विरोधं न कुर्वन्ति।

हिन्दुस्थान समाचार