एआई-शिखर-सम्मेलने काङ्ग्रेसस्य प्रदर्शनं देशस्य छविं मलिनीकर्तुं कृतम् षड्यन्त्रम् — भाजपापक्ष:
नवदिल्ली, २० फरवरीमासः (हि.स.)। भारतीयजनतापक्षेण एआई-शिखर-सम्मेलने भारतीय-युवा-काङ्ग्रेस-कार्यकर्तृभिः कृतं प्रदर्शनं लज्जास्पदं निर्दिश्य उक्तं यत् एतत् देशस्य छविं धूमिलीकर्तुं रचितं षड्यन्त्रं अस्ति। भाजपापक्षस्य राष्ट्रीय-प्रवक्ता तथा सांसदः स
भाजपा सांसद डॉ संबित पात्रा


नवदिल्ली, २० फरवरीमासः (हि.स.)। भारतीयजनतापक्षेण एआई-शिखर-सम्मेलने भारतीय-युवा-काङ्ग्रेस-कार्यकर्तृभिः कृतं प्रदर्शनं लज्जास्पदं निर्दिश्य उक्तं यत् एतत् देशस्य छविं धूमिलीकर्तुं रचितं षड्यन्त्रं अस्ति।

भाजपापक्षस्य राष्ट्रीय-प्रवक्ता तथा सांसदः संबित पात्रा शुक्रवारवासरे पक्षस्य मुख्यालये आयोजितायां पत्रकार-वार्तायां अवदत् यत् केचन प्रदर्शनकारिणः बारकोड्-युक्तैः प्रवेश-पत्रैः कार्यक्रमस्य अन्तः प्रविष्टाः आसन् तथा विरोध-सूचनार्थं ते विपरित-वस्त्राणि (टी-शर्ट्) धारयन्तः आसन्। तेनोक्तं यत् भारतमंडपम-मध्ये प्रवर्तमाने एआई-शिखर-सम्मेलने युवा-काङ्ग्रेसस्य चत्वारः कार्यकर्तारः गृहीताः सन्ति।

पात्रा अवदत् यत् एते कार्यकर्तारः पूर्वं पञ्जीकरणं कृत्वा विपरीत-वस्त्र-धारणेन अन्तः प्रविष्टाः, ततः कार्यक्रमस्य अन्तर्भागे वस्त्राणि अवतार्य प्रदर्शनं कृतवन्तः। तेन आरोपः कृतः यत् एषा षड्यन्त्र-योजना सोनिया गांधी, राहुल: गांधी, प्रियंका गांधी वाड्रा इत्येषां उपस्थितौ राहुल-गान्धिनः निवास-स्थले रचिता। एषः प्रयोगः अस्ति, न तु संयोगः इति तेन स्पष्टं कृतम्।

सः अवदत्— “काङ्ग्रेस-पक्षाय मम समीपे केवलं त्रयः शब्दाः सन्ति— टॉपलेस्, ब्रेन्-लेस्, शेम्-लेस्।” काङ्ग्रेसस्य एतावदपि विवेकः नास्ति यत् एआई-शिखर-सम्मेलनं न भाजपापक्षस्य कार्यक्रमः, न च भाजपापक्षस्य राष्ट्रीय-कार्यकारिणी-सभा अस्ति। एतत् सम्पूर्ण-विश्वस्य एआई-शिखर-सम्मेलनम् अस्ति, यत्र प्रदर्शनं न विधेयम्।

तेन अपि उक्तं यत् भारतदेशेन पूर्वं कदापि एतादृशं वैश्विक-स्तरीयं शिखर-सम्मेलनं न आयोजितम्। एआई-शिखर-सम्मेलनस्य माध्यमेन सम्पूर्ण-विश्वे भारतस्य नाम प्रतिष्ठां प्राप्नोति। अस्मिन् सम्मेलने शताधिक-देशाः प्रतिभागं कुर्वन्ति, विंशतिः राष्ट्राध्यक्षाः, अन्येषां देशानां षष्टिः मन्त्रिणश्च अत्र भागं गृहीतवन्तः।

भाजपा-प्रवक्ता अवदत् यत् एतादृशेषु आयोजनेषु सहस्रशः वैश्विक-संस्थाः, तेषां प्रमुखाः, अनुसन्धानकर्तारः, नीति-निर्मातारः, स्टार्टअप्-संस्थाः च सहभागिनः भवन्ति। अत्र सहस्रं वक्तृ-सत्राणि च भवन्ति। अद्य काङ्ग्रेस-कार्यकर्तृभिः कृतस्य कर्मणः कारणात् भारतस्य यूनां मध्ये, विशेषतः जेन-जी-वर्गे, तीव्रः आक्रोशः दृश्यते। स: अपि अवदत् यत् एतत् प्रदर्शनं लोकसभायां विपक्ष-नेता राहुल गांधी-ना भारतस्य छविं धूमिलीकर्तुं कृतः प्रयासः एव अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता