एआई शिखर सम्मेलने भारत ब्राजील इत्यनयोः मध्ये कृषि सहयोगे संजाता सहमतिः
नवदिल्ली, 20 फरवरीमासः (हि.स.)। दिल्लीस्थिते भारत मंडपम मध्ये आयोजिते ‘इण्डिया एआई इम्पैक्ट् समिट्’ इत्यस्मिन् अवसरे भारतब्राज़ीलदेशयोः कृषिमन्त्रिणोः मध्ये कृषि व्यापारस्य तकनीकी सहभागितायाश्च विषये विस्तीर्णा चर्चा अभवत्। केन्द्रीयकृषिः किसान
केन्द्रीय कृषि एवं किसान कल्याण मंत्री शिवराज सिहं चौहान


नवदिल्ली, 20 फरवरीमासः (हि.स.)।

दिल्लीस्थिते भारत मंडपम मध्ये आयोजिते ‘इण्डिया एआई इम्पैक्ट् समिट्’ इत्यस्मिन् अवसरे भारतब्राज़ीलदेशयोः कृषिमन्त्रिणोः मध्ये कृषि व्यापारस्य तकनीकी सहभागितायाश्च विषये विस्तीर्णा चर्चा अभवत्।

केन्द्रीयकृषिः किसानकल्याणमन्त्री शिवराज सिंह चौहान शुक्रवासरे ‘एक्स्’ माध्यमेन उक्तवान् यत् अद्य कृषिभवने ब्राज़ीलदेशस्य कृषिमन्त्रिणा तस्य दलसहितेन सह कृषि उत्पादानां आपणपर्यन्तं सुलभप्रवेशः प्राकृतिकजैविककृषिसम्बद्धविषयाश्च विषये संवादः कृतः। भारतदेशः विशेषतः स्वस्य अनार लहसुन अंगूर किशमिश इत्येतानां ब्राज़ीलदेशस्य बाजारेषु निर्यातं शीघ्रतया प्रवर्तयितुं प्रयत्नशीलः अस्ति।

सः अवदत् यत् भारतीय कृषि अनुसंधान परिषद तथा ब्राजील की कृषि अनुसंधान निगम इत्येतयोः संस्थयोः मध्ये सहयोगे सहमति जाता। उभे संस्थे प्राकृतिकजैविककृषेः संवर्धनार्थं संयुक्तरूपेण कार्यं करिष्यतः। अस्य कृते शीघ्रमेव एकं समझौतापत्रं हस्ताक्षरितुं शक्यते।

भारते प्रवर्तमानं दलहनतिलहनमिशनं सुदृढं कर्तुं ‘सेंटर् आफ् एक्सीलेंस्’ इत्यस्य स्थापनायाः विषये अपि विचारविमर्शः कृतः। ब्राज़ीलदेशेन एकीकृतकृषिप्रणालीषु भारतदेशेन सह सहयोगस्य इच्छा अपि व्यक्ता।

मन्त्री उक्तवान् यत् ब्राज़ीलदेशस्य राष्ट्रपतिनः नेतृत्वे वरिष्ठमन्त्रिणां प्रतिनिधिमण्डलस्य च अयं भारतदौरा भारतब्राज़ीलसम्बन्धान् अधिकं सुदृढान् करिष्यति तथा पारस्परिकसहयोगं वर्धिष्यते।

---------------

हिन्दुस्थान समाचार