एआई शिखर सम्मेलनस्य अवधौ वैश्विक टेक मुख्यकार्यधिकारी उपराष्ट्रपतिना अकरोत् मेलनम्
नव दिल्ली, 20 फरवरीमासः (हि.स.)। दिल्लीस्थिते भारत मंडपम मध्ये आयोजिते ‘इंडिया एआई इम्पैक्ट संगोष्ठ्याः 2026’ अवसरे विश्वस्य विविधदेशेभ्यः आगताः प्रमुखमुख्यकार्यकारिणःअधिकारीणः प्रतिनिधिमण्डलानि च शुक्रवासरे उपराष्ट्रपति भवन गत्वा उपराष्ट्रपतिना
उप राष्ट्रपति और वैश्वक टेक सीईओ


नव दिल्ली, 20 फरवरीमासः (हि.स.)।

दिल्लीस्थिते भारत मंडपम मध्ये आयोजिते ‘इंडिया एआई इम्पैक्ट संगोष्ठ्याः 2026’ अवसरे विश्वस्य विविधदेशेभ्यः आगताः प्रमुखमुख्यकार्यकारिणःअधिकारीणः प्रतिनिधिमण्डलानि च शुक्रवासरे उपराष्ट्रपति भवन गत्वा उपराष्ट्रपतिना सीपी राधाकृष्णन सह मिलितवन्तः। अस्यां उच्चस्तरीयसभायां भारतस्य वर्धमानः एआई पारिस्थितिकतन्त्रः वैश्विकप्रौद्योगिकपरिदृश्ये तस्य भूमिकाच विषये विस्तीर्णा चर्चा अभवत्।

सीपी राधाकृष्णनः ‘एक्स्’ माध्यमेन उक्तवान्— “अयं शिखरसंमेलनः भारतं वैश्विक एआई परिदृश्ये प्रमुखखेलाडिरूपेण प्रतिष्ठापयितुं महत्त्वपूर्णं पदम् अस्ति। इंडिया एआई मिशन सशक्तसहकार्यात्मकपारिस्थितिकतन्त्रनिर्माणे मीलस्तम्भः भविष्यति।”

सः विश्वासं व्यक्तवान् यत् ‘इंडिया एआई मिशन’ माध्यमेन प्रौद्योगिकविकासः समावेशी भविष्यति, येन समाजस्य सर्ववर्गाः लाभं प्राप्स्यन्ति।

सभाकाले मुख्यकार्यकारीअधिकारिणः प्रकाशं कृतवन्तः यत् कृत्रिमबुद्धिः केवलं प्रौद्योगिकी न, अपितु स्वास्थ्यसेवा शिक्षा रोजगार इत्यादिक्षेत्रेषु क्रान्तिकारीपरिवर्तनस्य शक्तिमान् साधनम् अस्ति।

प्रतिनिधयः अपि उक्तवन्तः यत् विशालदत्तसंपदा युवा प्रतिभा च कारणेन भारतः व्यापकस्तरे एआई नवोन्मेषस्य कार्यान्वयनस्य च कृते अत्यन्तम् अनुकूलस्थितौ अस्ति।

---------------

हिन्दुस्थान समाचार