Enter your Email Address to subscribe to our newsletters

गुवाहाटीनगरम्/कछार:, २० फरवरीमासः (हि.स.)। केन्द्रीय-गृहमन्त्री अमितशाह: शुक्रवासरे भारत–बाङ्ग्लादेश-सीमायां स्थिते कछार-जनपदे प्रवासस्य अवसरे काठिन्यपूर्णं दृष्टिकोणं व्यक्तवान्। सः अवदत् यत् सीमामार्गेण भारतं प्रविशन्तं प्रत्येकं अवैधप्रवेशकं पुनः सीमापारं प्रेषयिष्यामः।
सीमाक्षेत्रे आयोजितायां सभायां सम्बोधनं कुर्वन् केन्द्रीय-गृहमन्त्री अवदत् यत् भारतीयजनतापक्ष: सर्वकार: असम-राज्यं सुरक्षितं विकसितं च कर्तुं दृढसंकल्पित: अस्ति। तेन आरोपितं यत् काङ्ग्रेस-सर्वकारस्य काले अवैध-प्रवेशकानां कृते द्वाराणि उद्घाटितानि आसन्; किन्तु भाजपापक्षस्य शासनकाले न केवलं अवैधप्रवेशे प्रतिबन्धः कृतः, अपि तु अवैध-अधिकारिभ्यः बहुलक्ष-बीघा-परिमाणस्य भूमिः अपि मुक्तीकृता। काङ्ग्रेसः दीर्घकालं शासनं कृतवान्, तथापि असमराज्यस्य विकासाय किमपि न अकरोत्; यत् स: पञ्चाशत् वर्षेषु न कर्तुं शक्त:, तत् वयं दशवर्षेषु साधितवन्तः इति सः उक्तवान्।अमित-शाहः विश्वासं व्यक्तवान् यत् असमप्रदेशं सुरक्षितं समृद्धं च कर्तुं संकल्पं धारयन् भाजपापक्ष: राज्ये तृतीयवारं सर्वकारं निर्मास्यति।
अस्मिन् अवसरे असम-राज्यस्य मुख्यमन्त्री हिमंतबिस्व: सरमा जनान् आह्वानं कृतवान् यत् कश्चन सनातनी-व्यक्तिः स्वभूमिं कस्यचित् अज्ञाताय न विक्रीयात्। तेन उक्तं यत् अद्यावधि प्रायः अर्धलक्षाधिक-बीघा-परिमाणस्य भूमिः अतिक्रमणात् मुक्तीकृता अस्ति; यदि पुनः भाजपापक्ष: सत्तां प्राप्स्यति, तर्हि पञ्चलक्ष-बीघा-परिमाणस्य भूमेः अतिक्रमणं निराकर्तुं कार्यं करिष्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता