छत्तीसगढराज्ये १२ कक्षाया: परीक्षा अद्य आरभ्यते; रायपुर–नगरे सर्वाधिका: परीक्षार्थिन:
रायपुर, २० फरवरीमासः (हि.स.)। छत्तीसगढ़–माध्यमिक–शिक्षा–मण्डलस्य (माशिम) बोर्ड–परीक्षाः अद्य शुक्रवासरे २० फरवरीमासे आरभ्यन्ते। प्रथमदिने द्वादश कक्षायाः परीक्षा आयोज्यन्ते, यत्र १० कक्षायाः परीक्षा २१ फरवरीमासे प्रारब्धा: भविष्यन्ति। प्रदेशे सर्वत
छात्र-छात्राएं पेपर हल करते हुए फाइल फाेटाे


रायपुर, २० फरवरीमासः (हि.स.)। छत्तीसगढ़–माध्यमिक–शिक्षा–मण्डलस्य (माशिम) बोर्ड–परीक्षाः अद्य शुक्रवासरे २० फरवरीमासे आरभ्यन्ते। प्रथमदिने द्वादश कक्षायाः परीक्षा आयोज्यन्ते, यत्र १० कक्षायाः परीक्षा २१ फरवरीमासे प्रारब्धा: भविष्यन्ति। प्रदेशे सर्वत्र परीक्षा–संबन्धिन्य: विस्तृता: सज्जा: पूर्णा कृताः।

द्वादश–कक्षायाः छात्राः अद्य भूगोल–भौतिकशास्त्र–विषयकी-परीक्षां लिखिष्यन्ति। तत्रैव १०–कक्षायाः विद्यार्थिन: श्व: हिंदी–विषयस्य परीक्षां दास्यन्ति। परीक्षा–समयः प्रातः ०९:०० वादने आरभ्य मध्याह्न १२:१५ वादने पर्यन्तं निर्धारितः। प्रदेशे अस्मिन् वर्षे आहत्य २५१४ परीक्षा–केंद्राणि निर्मितानि। अतीते वर्षे एतेषां संख्या २५२३ आसीत्। परीक्षा–केंद्रेषु कठोर–निरीक्षणाय उड़नदस्ता–दलानि सजगानि सन्ति।

अस्य वर्षस्य १० कक्षाया: परीक्षायाम् ३,२१,४८९ परीक्षार्थिन: सम्मिलन्ति, १२ कक्षाया: परीक्षायाम् २,४६,०९८ परीक्षार्थिनः पञ्जीकृताः। छात्र–संख्यायाः आधारे राजधानी–रायपुर–नगरे दशमकक्षायाम् २७,५२८ तथा द्वादश्यां कक्षायाम् २१,४९० परीक्षार्थिनः शीर्षे स्थिताः। न्यूनतमा: परीक्षार्थिनः नारायणपुर–जनपदे दशम–कक्षायाम् १,५४७ तथा द्वादशी–कक्षायाम् १,३६८ सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता