Enter your Email Address to subscribe to our newsletters

मुंबईनगरम्, २० फरवरीमासः (हि.स.)। श्रद्धेय-जनानां जयन्ती केवलं शोभायात्राभिः, घोषवाक्यैः औपचारिक-कार्यक्रमैः वा न सम्पद्यते; अपि तु समाजस्य हिताय कृतानि दृढानि कार्याण्येव तान् महापुरुषान् प्रति सत्यां श्रद्धाञ्जलिं ददति। एतं सन्देशं प्रदाय ठाणे-जनपदस्य सिविल-सर्जनः डॉ.कैलाशः पवारः अद्य स्वविचारान् व्यक्तवान्। सः अवदत्— “छत्रपतिशिवाजीमहाराज: तथा जगद्गुरु-संत-सेवालाल-महाराज: —एतयोः जयन्ती-उत्सवः समाज-कल्याण-कार्यैरेव आचरितव्यः।”
सः अवदत् यत् महापुरुषाणां सत्या श्रद्धाञ्जलिः तेषां उपदेशानाम् आदर्शानां अनुसरणेनैव पूर्णतां प्राप्नोति। शिव-जयन्त्याः तथा जगद्गुरु-सन्त-सेवालाल-महाराज-जयन्त्याः उपलक्ष्ये द-ग्रेट-सतारा-सांगली-सेवा-समिति: (पञ्जीकृता), डायसन-फाउण्डेशन (NGO) तथा ठाणे-जनपद-सामान्य-चिकित्सालयेन सह मिलित्वा एकं विशालं आरोग्य-शिबिरं आयोजितम्।
शुभारम्भावसरे गोरा-परम्परानुसारं छत्रपति-शिवाजी-महाराजस्य तथा जगद्गुरु-सन्त-सेवालाल-महाराजस्य चित्रेषु प्रसादः समर्पितः। अस्मिन् अवसरे जनपद-शल्यचिकित्सक: मुख्य-मार्गदर्शकरूपेण उपस्थितः आसीत्। कार्यक्रमे रामः रेपालः (शिवसेना—सचिवः), विजयः यादवः (ट्रैफिक-फोर्स्, ठाणे-जनपद—अध्यक्षः) तथा पंकजः शिरसाठः (ठाणे-नगर-यातायात—उप-आयुक्तः) अपि सहभागिन: अभवन्।
अस्मिन् आरोग्य-शिबिरे प्रायः १७५ रोगिणः विविध-परिक्षणैः औषध-सेवाभिश्च लाभान् अलभन्त। स्त्री-रोग-विज्ञानम्, अस्थि-चिकित्सा, शिशु-चिकित्सा, नेत्र-परिक्षा, दन्त-परिक्षा—एतैः सह रक्तचापः, शर्करा, कोलेस्ट्रॉल्, ईसीजी इत्यादिनी परीक्षणानि निःशुल्कं कृतानि। नेत्र-परिक्षानन्तरं योग्येभ्यः लाभार्थिभ्यः निःशुल्क-उपनेत्राणि अपि वितरितानि।
तदनन्तरं जनाः स्वयमेव ई-श्रम-पत्रकस्य तथा आयुष्मान-भारत-पत्रकस्य पञ्जीकरणाय उत्साहं दर्शितवन्तः। ठाणे-जनपद-सामान्य-चिकित्सालयस्य ३२ चिकित्सकाः—विशेषज्ञाः, अधिकारिणः, तथा रोग-परीक्षा-औषध-वितरण-कर्मचारिणश्च—शिबिरे सक्रियतया सहभागं कृतवन्तः।
डायसन-फाउण्डेशन-इत्यस्य निदेशकः डॉ.अतुलः तारासिंहः राठौड़ः, वैशाली राठौड़, प्रकाशः सूर्यवंशी (स्थापक-अध्यक्षः) तथा उत्तमः सूर्यवंशी (ठाणे-जनपद—अध्यक्षः) इत्यादयः समिति-सदस्याश्च अभियानस्य सफलतायै परिश्रमं कृतवन्तः। नीतू राठौड: तथा नीमू राठौड: —एतयोः स्वागत-भजनैः गीतैश्च कार्यक्रमस्य सांस्कृतिक-महत्त्वं अधिकं संवर्धितम्।
हिन्दुस्थान समाचार / अंशु गुप्ता