Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २० फरवरीमासः (हि.स.)। राष्ट्रीयनाट्यविद्यालयस्य (एनएसडी) निदेशकः चित्तरंजन: त्रिपाठी शुक्रवासरे अवदत् यत् नाटकं केवलं मनोरञ्जनं न, अपि तु समाजं अहङ्कारात् विमोचयितुं तथा ‘शीतलतां’ प्रदातुं सर्वाधिकं सशक्तं माध्यमम् अस्ति।
एतत् वक्तव्यं तेन अद्य नव-दिल्ली-स्थितेन एनएसडी-संस्थया आयोजितस्य अन्ताराष्ट्रियस्य 25तमस्य भारतरंगमहोत्सवस्य 2026-समापन-समारोहस्य अवसरे उक्तम्। प्रायः त्रिन् सप्ताहान् यावत् प्रवृत्तः अयं कला-महाकुम्भः दिहल्या सहितं देशस्य विविधेषु प्रदेशेषु रंगमञ्चस्य सजीवत्वं प्रसारितवान्।
त्रिपाठी नाट्यशास्त्रस्य कालखण्डं स्मारयन् अवदत् यत् यदा अस्माकं पूर्वजाः चिकित्सा, खगोल-विज्ञानं तथा शल्य-चिकित्सायां उत्कर्षे आसन्, तदा समाजे ज्ञान-अहङ्कारः वर्धितः। तस्मिन् काले मनुष्यं आत्मकेन्द्रितत्वात् रक्षितुं तथा चिन्तामुक्तिं दातुं ऋषिभिः ‘संस्कृतिः’ तथा ‘रङ्गकर्म’ इति मार्गः स्वीक्रियते स्म। सः अवदत्—यदा प्रभुः समाजं ससर्ज, तदा एव रङ्गकर्मणः अस्तित्वं आसीत्; पश्चात् संगीत-नृत्य-चित्रकला-इत्यादीनि वर्गीकरणानि जातानि।
प्रधानमन्त्रिणः ‘विकसित-भारत’ इति सङ्कल्पं संयोजयन् त्रिपाठी अवदत् यत् अग्रिमेषु पञ्चविंशति-वर्षेषु यदा वयं विकसित-राष्ट्रं भविष्यामः, तदा ‘विकसित-मनः’ तथा ‘स्वस्थ-मानसिकता’ अनिवार्ये स्तः—यत् केवलं कला-रङ्गकर्माभ्यां सम्भवति।
एनएसडी-इत्यस्य पूर्व-निदेशकः रामगोपालबजाज: अवदत् यत् रङ्गमञ्चः केवलं मनोरञ्जनं न, अपि तु हृदय-मस्तिष्कयोः ‘चित्त’-मेलनम् अस्ति। नव-वंश: एतां ‘लीला-भूमिं’ न केवलं संरक्षितां, अपि तु विकसितापि कृतवती इति सः विश्वासं व्यक्तवान्।
एनएसडी-सोसाइटी-इत्यस्य उपाध्यक्षः भरतगुप्त: अवदत् यत् रङ्गकर्मी स्वकलया दिव्य-रूपं, चरित्रं तथा दिव्यतां सामान्य-जनसमूहे साक्षात् प्रस्तौति।
अस्य महोत्सवस्य ‘रङ्गदूता’ मीतावशिष्ठ: सर्वान् आह्वयत् यत् रङ्गमञ्चं गृह-मोहल्लयोः अङ्गं कुर्वन्तु; शून्य-भूमिः नवनिर्मित-भवनानि वा—सर्वत्र कलायै एकः कोण: अवश्यं स्यात्, यतः नूतनं वंशं अद्य नाट्य-स्थलानां अन्वेषणं करोति।अस्मिन् अवसरे भास्करचंद्रमहापात्रस्य ‘Six Season’ इति पुस्तकम् तथा दक्षिणा शर्मा-अनूदितं ‘वनहंस’ इति पुस्तकं लोकार्पिते; तयोः चर्चा-परिचर्चापि अभवत्।
समारोहस्य मुख्याकर्षणं लौहपुरुष: इति नाट्य-प्रस्तुतिः आसीत्, यत् सरदारवल्लभभाईपटेलस्य जीवनं आधारीकृत्य विरचितम्; अस्य निर्देशनं चित्तरंजन-त्रिपाठिना कृतम्। स्वागत-भाषणं चित्तरंजन-त्रिपाठिना, अध्यक्षता भरत-गुप्तेन, धन्यवाद-ज्ञापनं प्रदीप-मोहन्तिना च कृतम्।
अस्मिन् अवसरे मुख्यातिथि: राम-गोपाल-बजाजः, विशिष्टातिथिः गीतकारः स्वानंदकिरकिरे तथा मीता-वशिष्ठा इत्यादयः कलाकाराः, कलाप्रेमिणः, गणमान्याश्च उपस्थिताः आसन्।
उल्लेखनीयं यत् २५तमस्य ‘भारत-रङ्ग-महोत्सव २०२६’स्य आरम्भः २७ जनवरी-दिने नव-देहल्यां मर्यादापुरुषोत्तम: श्रीराम: इत्यनेन नाटकेन अभवत्—यत् निशांतभारती-लिखितं तथा रेखा मेहरा-निर्देशितम्। ३१ जनवरी-दिने कनाडादेशस्य मिसिसॉगा-नगरे Radio Dhishum-सहयोगेन सप्त-नाटक-प्रस्तुतिभिः अस्य अन्ताराष्ट्रिय-यात्रा आरब्धा। कनाडा, जर्मनी, कतर, यूएई, सूरीनाम, नीदरलैण्ड्, तंजानिया, मॉरीशस-इत्यादिषु देशेषु भारतीय-कला प्रदर्शिता।
अनेन ७ महाद्वीपेषु १५ त: अधिकेषु देशेषु बहूनि नाटकानि सफलतया प्रस्तुतानि। अण्टार्कटिका-भूमौ ‘वन्दे मातरम्’ तथा ‘भगवद्गीता’ इत्यनयोः निनादेन अयं महोत्सवः विश्वस्य सर्वातिवृहत्तमः अन्ताराष्ट्रिय-रंगमंच-महोत्सवः अभवत्।
हिन्दुस्थान समाचार / अंशु गुप्ता