देशस्य अष्ट प्रमुख-अग्रगण्य-उद्योगानां उत्पादनं जनवरी-मासे चतुर्भिः प्रतिशतैः वर्धितम्
नवदिल्ली, २० फरवरीमास: (हि.स.)। देशस्य अष्ट प्रमुख-अग्रगण्य-क्षेत्रेषु उद्योगानां उत्पादन-वृद्धि-दरः जनवरी-मासे न्यूनीभूय: चतुर्भिः प्रतिशतैः सीमिता अभवत्। यद्यपि एषा वृद्धि: दिसम्बर, २०२५ मासस्य ४.७-प्रतिशत-वृद्धेः अपेक्षया मन्दतराऽस्ति। वाणिज्य-
आठ प्रमुख बुनियादी उद्योगों का प्रतीकात्‍मक चित्र


नवदिल्ली, २० फरवरीमास: (हि.स.)। देशस्य अष्ट प्रमुख-अग्रगण्य-क्षेत्रेषु उद्योगानां उत्पादन-वृद्धि-दरः जनवरी-मासे न्यूनीभूय: चतुर्भिः प्रतिशतैः सीमिता अभवत्। यद्यपि एषा वृद्धि: दिसम्बर, २०२५ मासस्य ४.७-प्रतिशत-वृद्धेः अपेक्षया मन्दतराऽस्ति।

वाणिज्य-एवं-उद्योग-मंत्रालयेन शुक्रवासरे प्रकाशितेषु विवरणेषु उक्तं यत् एतेषां प्रमुख-अग्रगण्य-उद्योगानां वृद्धि-दरः एक-वर्षं पूर्वं जनवरी, २०२५ मासे ५.१ प्रतिशतं आसीत्, यद्यपि दिसम्बर, २०२५ मासे ४.७ प्रतिशतं एव आसीत्। आधिकारिक-विवरणानुसारं जनवरी-मासे अपक्व-तैलस्य तथा प्राकृतिक-वात्या: उत्पादनयोः नकारात्मिका वृद्धि: अभिलेखिता।

विवरणानुसारं चलित-वित्तीय-वर्षस्य २०२५–२६ अप्रैल–जनवरी-अवधौ एतेषां अष्ट-प्रमुख-अग्रगण्म-उद्योगानां उत्पादनं २.८ प्रतिशतैः वर्धितम्, यद्यपि वित्तीय-वर्षस्य २०२४–२५ समान-अवधौ वृद्धि-दरः ४.५ प्रतिशतं आसीत्।

अष्ट-प्रमुख-अग्रगण्य-क्षेत्रेषु उद्योगेषु कोयला, अपक्वं तैलम्, प्राकृतिक-वाति:, रिफाइनरी-उत्पादाः, उर्वरकाः, इस्पातः, सीमेण्ट तथा विद्युत्-उत्पादनं समाविष्टानि सन्ति। एते उद्योगाः देशस्य आधारभूत-संरचनायां औद्योगिक-उत्पादने च अत्यन्तं महत्त्वपूर्णां भूमिकां वहन्ति तथा औद्योगिक-उत्पादन-सूचकाङ्के (IIP) प्रायः ४०.२७ प्रतिशतं योगदानं ददति।

हिन्दुस्थान समाचार / अंशु गुप्ता