Enter your Email Address to subscribe to our newsletters



नवदिल्ली, 20 फरवरीमासः (हि.स.)।
भारतदेशः इंडिया एआई इम्पैक्ट समिट् नाम्नि आयोजिते समारोहसमये पैक्स सिलिका गठबन्धने सम्मेलितुं कृतसहमतौ हस्ताक्षरं कृतवान्। उभयोः देशयोः वरिष्ठाधिकारिणां उपस्थितौ एआई संचालितां वैश्विकां अर्थव्यवस्थां शक्तिं दातुं सम्पूर्णस्य तकनीकी आधारशिलायाः सुरक्षायै सामूहिकप्रतिबद्धता पुनरुक्ता।
केन्द्रीय इलेक्ट्रॉनिक्स तथा सूचना प्रौद्योगिकी मन्त्री अश्विनी वैष्णव भारत मण्डपम् नाम्नि स्थले इंडिया एआई इम्पैक्ट समिट् पञ्चमे दिने अस्य सम्झौते हस्ताक्षरानन्तरं उक्तवान् यत् एतत् केवलं औपचारिकहस्ताक्षरं न, अपितु भविष्यनिर्माणस्य क्षणः अस्ति। स्वातन्त्र्योत्तरकालात् आरभ्य भारतस्य वृद्धौ समासवृद्धेः शक्तिः स्पष्टा दृश्यते। अद्य भारतस्य अभियन्तारः विश्वस्य अत्याधुनिकं द्विनैनोमीटर् परिमाणयुक्तं चिप् अभिकल्पयन्ति। सेमिकण्डक्टर् उद्योगाय प्रायः दश लक्ष नवव्यावसायिकानां आवश्यकता भविष्यति, यत् भारतस्य कृते महानवसरः अस्ति।
अमेरिकादेशस्य आर्थिकवृद्धि ऊर्जा पर्यावरणविषयककार्येषु अवर सचिवः जैकब हेलबर्ग एतां घोषणां सामूहिकभविष्यस्य मार्गरेखा इति निरूपितवान्। तेन उक्तं यत् पैक्स सिलिका हस्ताक्षरेण भारतम् अमेरिका च एतत् सन्देशं दत्तवन्तौ यत् आर्थिकसुरक्षा एव राष्ट्रियसुरक्षा अस्ति। वयं भविष्यस्य सम्पूर्णां तकनीकी शृंखलां सुरक्षितां कुर्मः, भूमेः अन्तर्गतखनिजेभ्यः आरभ्य प्रयोगशालासु तथा फैब्स नाम्नि निर्माणकेन्द्रेषु स्थितेषु सिलिकॉन वेफरपर्यन्तं तथा तस्मिन् निहितबुद्धिपर्यन्तं या मानवक्षमतां प्रकाशयिष्यति।
भारतस्थितः अमेरिकादेशस्य राजदूतः सर्जियो गोर भारतस्य सहभागितां रणनीतिकां अनिवार्यां च उक्तवान्। तेन उक्तं यत् पैक्स सिलिका एकविंशतितमशताब्द्याः आर्थिक तथा तकनीकी व्यवस्थां परिभाषयिष्यति। एतत् खनिजखदानात् आरभ्य चिप् निर्माणफैब् तथा डेटा सेन्टर् पर्यन्तं सम्पूर्णां सिलिकॉन शृंखलां सुरक्षितां कर्तुं निर्मितम् अस्ति। एषः गठबन्धनः अस्य प्रश्नस्य उत्तरम् अस्ति यत् किं स्वतन्त्रसमाजाः वैश्विकअर्थव्यवस्थायाः उच्चस्थाने नियन्त्रणं धारयिष्यन्ति। वयं स्वतन्त्रतां वरणुमः, साझेदारीं वरणुमः, शक्तिं च वरणुमः। तेन अपि उक्तं यत् एआई क्रान्तिः भविष्ये न, अपितु अद्य एव अस्ति।
सुंदर पिचाई अपि अस्य उपक्रमस्य स्वागतं कृतवान्। तेन उक्तं यत् पैक्स सिलिका सुरक्षितसप्लाई चेन तथा प्रमुखप्रौद्योगिकीषु व्यावसायिकसाझेदारीं प्रोत्साहयिष्यति। अद्यतनव्यापारसहमत्या सह एषा पहल अमेरिका भारत तकनीकीसहमतेः कृते दृढाधारं निर्मास्यति इति उक्त्वा उभयोः देशयोः अभिनन्दनं कृतवान्।
हस्ताक्षरसमारोहानन्तरं आयोजिते उच्चस्तरीय फायरसाइड् संवादे इलेक्ट्रॉनिक्स तथा सूचना प्रौद्योगिकी सचिवः एस कृष्णन, अमेरिकीय राजदूतः सर्जियो गोर, संजय मेहरोत्रा तथा रंधीर ठाकुर एआई महत्वाकांक्षा सेमिकण्डक्टर् लचीलताविषये रणनीतिकविषयान् चर्चितवन्तः। एस कृष्णन उक्तवान् यत् भारतस्य लक्ष्यं विश्वसनीयसहभागिभिः सह लचीला सहयोगः अस्ति, येन भारतः भविष्यस्य वैश्विक तकनीकीव्यवस्थायां स्वस्थानं सुनिश्चितुं शक्नुयात्।
पैक्स सिलिका घोषणायां उक्तं यत् वयं सामूहिकसमृद्ध्यै तकनीकीप्रगत्यै आर्थिकसुरक्षायै च मिलित्वा कार्यं करिष्यामः। विश्वसनीयसप्लाई चेन तथा सुरक्षित एआई प्रणाली भविष्यस्य अर्थव्यवस्थायै अनिवार्ये स्तः। एआई इत्यस्य शीघ्रप्रगति वैश्विकअर्थव्यवस्थां सप्लाई चेन च परिवर्तयति। अस्य फलस्वरूपं ऊर्जा खनिज निर्माण हार्डवेयर इन्फ्रास्ट्रक्चर तथा नूतनबाजारेषु महान्तः अवसराः उत्पत्स्यन्ते।
अमेरिकीय विदेशमन्त्रालयस्य अनुसारं पैक्स सिलिका एआई तथा सप्लाई चेन सुरक्षायाः प्रमुखः प्रयासः अस्ति। अस्य प्रथमः शिखरसमारोहः १२ दिसम्बर २०२५ दिनाङ्के वाशिंग्टन् नगरे सम्पन्नः, यत्र सहभागिदेशाः पैक्स सिलिका घोषणायां हस्ताक्षरं कृतवन्तः। ‘पैक्स’ शब्दः ऐतिहासिकरूपेण शान्तेः स्थैर्यस्य समृद्धेः च प्रतीकः अस्ति।
---------------
हिन्दुस्थान समाचार