Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 20 फरवरीमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी इंडिया एआई इम्पैक्ट संगोष्ठ्याः अन्तिमदिने कृत्रिमबुद्धिमत्ता तथा गहनप्रौद्योगिकीक्षेत्रे संलग्नानां प्रमुखस्टार्टअप्स संस्थानानां मुख्यकार्यकारीअधिकारिभिः सह संवादं कृतवान्। अस्मिन् प्रसङ्गे प्रधानमन्त्रिणा स्वास्थ्यसेवा साइबरसुरक्षा अन्तरिक्षक्षेत्रे तथा अन्येषु उदयोन्मुखक्षेत्रेषु कार्यरतभारतीयस्टार्टअप्स संस्थानानां प्रौद्योगिकीयोजनानां नवोन्मेषाणां च विषये जानकारी गृहीता।
प्रधानमन्त्री मोदी भारतमण्डपम् इत्यत्र प्रवर्तमानस्य अस्य समिट कार्यक्रमस्य सन्दर्भे स्टार्टअप्स सीईओभिः सह विस्तृतां चर्चां कृतवान्। तत्र विविधप्रौद्योगिकीसमाधानानां अनुसन्धानस्य उत्पादविकासस्य च विषयेषु विस्तारतः विचारविमर्शः अभवत्। स्टार्टअप्स संस्थानानि स्वीयान् एआई आधारितसमाधानान् तेषां सामाजिक आर्थिकप्रभावं च निरूपितवन्ति।
बैठके विशेषतया चर्चिता या कृत्रिमबुद्धिमत्ता मशीन लर्निंग गहनप्रौद्योगिकी च कथं भारतस्य डिजिटलअर्थव्यवस्थायै नूतनां गतिं दातुं शक्नुवन्ति। प्रधानमन्त्रिणा नवोन्मेषे अनुसन्धाने च स्थानीयआवश्यकतानुरूपप्रौद्योगिकीविकासे बलं दत्तम्। ते अवदन् यत् भारतस्य युवानः उद्यमिनः च वैश्विकस्तरे स्पर्धां कर्तुं समर्थाः सन्ति देशं च प्रौद्योगिकीक्षेत्रे नूतनशिखरं नेतुं शक्नुवन्ति। शासनस्य प्रमुखलक्ष्यं प्रौद्योगिकीं सामान्यजनान् प्रति प्रापयितुं स्टार्टअप्स प्रोत्साहयितुं डिजिटलसमाधानानि विकसितुं च अस्ति।
नवदेहलीनगरे आयोजितस्य पञ्चदिवसीय एआई इम्पैक्ट समिट कार्यक्रमस्य शुक्रवासरे समापनं भवति। षोडशफरवरीतिथेः आरभ्य प्रवृत्ते अस्मिन् वैश्विकसम्मेलने विश्वस्य विविधदेशेभ्यः प्रौद्योगिकीविशेषज्ञाः उद्योगनेतारः च सहभागी अभवन्। अस्मिन् अवसरै सुन्दर पिचाई सैम ऑल्टमैन डारियो अमोदेई इत्यादयः वैश्विकप्रौद्योगिकीसंस्थानानां प्रमुखाः एआई भविष्यस्य तस्य उपयोगस्य सम्बद्धचुनौतिनां च विषये स्वविचारान् अभिव्यक्तवन्तः। प्रधानमन्त्रिणा अपि विविधसत्रेषु सहभागित्वं कृत्वा भारतस्य प्रौद्योगिकीक्षमता एआई क्षेत्रे देशस्य भूमिका च रेखांकिता।
---------------
हिन्दुस्थान समाचार