देशे दूरसञ्चार–जालानि एआई–आधारितानि भविष्यन्ति, स्मार्ट्-पारदर्शकानि सुरक्षितानि चल — ट्राई–अध्यक्षः
नवदिल्ली, २० फरवरीमासः (हि.स.)। भारतीय-दूरसञ्चार-नियामक-प्राधिकरणस्य (टेलीकॉम रेगुलेटरी अथॉरिटी ऑफ इंडिया) अध्यक्षः अनिलकुमारः लाहोटी ‘इण्डिया-एआई-इम्पैक्ट-शिखर-सम्मेलने’ अवदत् यत् कृत्रिम-बुद्धिमत्ता (एआई) इदानीं दूरसञ्चार-क्षेत्रे केवलं अतिरिक्त-
नई दिल्ली में इंडिया एआई इम्पैक्ट समिट 2026 में “टेलीकॉम में जिम्मेदार एआई” विषय पर उद्घाटन भाषण देते ट्राई अध्यक्ष।


नवदिल्ली, २० फरवरीमासः (हि.स.)। भारतीय-दूरसञ्चार-नियामक-प्राधिकरणस्य (टेलीकॉम रेगुलेटरी अथॉरिटी ऑफ इंडिया) अध्यक्षः अनिलकुमारः लाहोटी ‘इण्डिया-एआई-इम्पैक्ट-शिखर-सम्मेलने’ अवदत् यत् कृत्रिम-बुद्धिमत्ता (एआई) इदानीं दूरसञ्चार-क्षेत्रे केवलं अतिरिक्त-प्रौद्योगिकी न अस्ति, अपि तु जाल-रचनाया: संचालनस्य तथा उपभोक्ता-अनुभवस्य मूलाधारः अभवत्। उत्तरदायी-एआई-प्रयोगेण उपभोक्ता-विश्वासः पारदर्शिता च वर्धेते, तथा दूरसञ्चार-सेवानां गुणवत्ता-सुरक्षा च उन्नीयते।

शुक्रवासरे अत्र सुषमा-स्वराज-भवने दूरसञ्चारे उत्तरदायी-एआई-विषये आयोजिते कार्यक्रमे अध्यक्षः अवदत् यत् भारतसदृशे विशालदेशे—यत्र १.२-अर्बुदाधिकाः चल-दूरभाषा-ग्राहकाः तथा प्रायः १-अर्बुद-परिमिताः दत्त-उपयोक्तारः सन्ति—एआई-आधारितम् स्वचालनं (ऑटोमेशन) विकल्पः न, अपि तु अनिवार्यं जातम्। अस्मिन् कार्यक्रमे शासन-प्रतिनिधयः, वैश्विक-प्रौद्योगिकी-निर्माणिनां नेतारः, दूरसञ्चार-सेवा-प्रदातारः, अन्ताराष्ट्रिय-नीति-समुदायस्य सदस्याश्च सहभागिन: आसन्।

अध्यक्षेण सूचितं यत् एआई-प्रयोगः जाल-प्रदर्शन-सुधाराय, दोष-पूर्वानुमानाय, ऊर्जा-संरक्षणाय, उपभोक्ता-अनुभव-उन्नयनाय, स्पैम-वंचना-निवारणाय च क्रियते। उदाहरणतया सः अवदत् यत् स्पैम-दूरभाषा-आह्वानानां सन्देशानां च विरुद्धं कार्याणि कृत्वा २१-लक्षाधिकाः सङ्ख्याः अवरुद्धाः; एआई-तथा ब्लॉकचेन-आधारित-निस्यन्दन-प्रणाल्या च प्रति-कोटि-आह्वान-सन्देशौ प्रति एकं-पर्यन्तं सूचना: न्यूनतां गताः।

सः अवदत् यत् यथा एआई-प्रयोगः विस्तीर्णः भवति, तथा तस्य प्रभावोऽपि व्यापकः भवति; अतः पारदर्शिता, उत्तरदायित्वं, उपभोक्ता-अधिकार-रक्षणं च अत्यावश्यकम्। ट्राई २०२३-तमे वर्षे एआई-तथा बृहद्-दत्त-उपयोगे अनुशंसाः प्रकाशितवती, यत्र समस्या-आधारिता नियामक-नमूना प्रस्ताविता। २०२४-तमे वर्षे नियामक-सैण्डबॉक्स-सम्बद्धाः अनुशंसाः अपि प्रदत्ताः, येन ५जी तथा भावि ६जी-जाल-पर्यावरणे एआई-आधारित-समाधानानि सुरक्षिते परिवेशे परीक्षितुं शक्यन्ते।

अध्यक्षः अवदत् यत् अद्यतनयोः द्वयोः मुख्य-सत्रयोः एषैव उत्तरदायित्व-भावना प्रतिबिम्बिता—प्रथमं सत्रं एआई-युगाय जाल-सज्जां केन्द्रीकृतम्, द्वितीयं सत्रं उपभोक्ता-विश्वास-निर्माणे तथा एआई-आधारित-संचालने पारदर्शिता-नैतिकयोः चर्चां करिष्यति। भारतस्य अनुभवः वैश्विक-स्तरे उपयोगितां सिद्धुं शक्नोति; अन्ताराष्ट्रिय-सहयोगेन च सहभाग-समस्यानां समाधानं सम्भवति।

अन्ते सः अवदत् यत् एआई दूरसञ्चारस्य भविष्यं निर्धारयिष्यति; किन्तु कथं तद् रच्यते तथा कथं प्रवर्त्यते—तदेव निश्चितं करिष्यति यत् तत् भविष्यं विश्वासार्हं, समावेशी भविष्यति। ट्राई सर्वैः हितधारकैः सह कार्यं निरन्तरं करिष्यति, येन एआई-नवाचारेण सह जनहित-रक्षणमपि सुनिश्चितं भवेत्।

हिन्दुस्थान समाचार / अंशु गुप्ता