अङ्गदानं मानवतायाः सर्वोच्चं निदर्शनम् अस्ति, समाजाय प्रेरणास्वरूपं च — हेमन्तसोरेन:
रांचीनगरम्, २० फरवरीमास: (हि.स.)। झारखण्ड-राज्यस्य मुख्यमन्त्री हेमन्तसोरेन: अवदत् यत् अङ्गदानं मानवतायाः सर्वोच्चं निदर्शनम् अस्ति, समाजाय च प्रेरणादायकं सन्देशं ददाति। विधानसभापरिसरे पत्रकारैः सह संवादं कुर्वन् सः उक्तवान् यत् अङ्गदानस्य निर्णयः
मुख्यमंत्री सहित अन्य


रांचीनगरम्, २० फरवरीमास: (हि.स.)। झारखण्ड-राज्यस्य मुख्यमन्त्री हेमन्तसोरेन: अवदत् यत् अङ्गदानं मानवतायाः सर्वोच्चं निदर्शनम् अस्ति, समाजाय च प्रेरणादायकं सन्देशं ददाति। विधानसभापरिसरे पत्रकारैः सह संवादं कुर्वन् सः उक्तवान् यत् अङ्गदानस्य निर्णयः साहसस्य, संवेदनशीलतायाः मानवतायाश्च अद्भुतं उदाहरणं वर्तते, यः आवश्यकताग्रस्तजनानां जीवनेषु नूतनां आशां सञ्जनयति।

मुख्यमन्त्री केरल-राज्यस्य बालिकायाः आलिन-शेरिन्-अब्राहम-नाम्न्याः परिजनानां प्रशंसा कृता, तेषां धैर्यं भावनां च नत्वा अभिवन्दितवान्। सः अवदत् यत् बालिकायाः अकाल-निधनानन्तरं येन धैर्येण संवेदनशीलतया च परिवारः अङ्गदानस्य निर्णयं कृतवान्, सः अत्यन्तं प्रशंसनीयः प्रेरणादायकश्च अस्ति।

हेमन्त-सोरेन: अपि उक्तवान् यत् एषः निर्णयः न केवलं अनेकेषां आवश्यकताग्रस्त-रोगिणां कृते नूतन-जीवन-प्रदायकः अस्ति, अपि तु समाजाय मानवीय-मूल्यानां करुणायाश्च शिक्षां ददाति। देशे सहस्रशः रोगिणः अङ्ग-प्रत्यारोपणस्य प्रतीक्षां कुर्वन्ति, तादृशा: निर्णयाः तेषां कृते आशाकिरणं भवन्ति इति सः अवदत्।

मुख्यमन्त्री अवदत् यत् राज्य-सर्वकार: अस्य मानवीय-उपक्रमस्य सम्मानं कृत्वा बालिकायै सम्पूर्ण-राजकीय-सम्मानेन अन्तिम-विदायं प्रदत्तवान्। अस्मिन् अवसरे प्रशासनिक-अधिकारीभिः जनप्रतिनिधिभिश्च श्रद्धाञ्जलिः अर्पिता। सम्बन्धित-विश्वविद्यालयस्य अपि तस्य परिवारस्य निर्णयं अनुकरणीयं मन्यमानं सम्मानं व्यक्तं कृतम्।

मुख्यमन्त्री सोरेन: अवदत्— “अङ्गदानं महादानम् अस्ति,” अनेन च कस्यचित् जीवने नूतनं प्रकाशम् आनेतुं शक्यते। सः राज्यवासिनः प्रति आह्वानं कृतवान् यत् ते अङ्गदान-विषये जागरूकाः भवेयुः तथा अस्य अभियानस्य अग्रे नयने सहयोगं कुर्वन्तु, येन अधिकाधिकानां जनानां समये जीवनदानं लभ्येत।

सः अवदत् यत् एषा घटना समाजे करुणा-संवेदना-मानवतायाः भावनां सुदृढीकरोति तथा अग्रिम-वंशानां कृते प्रेरणास्रोतः भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता