Enter your Email Address to subscribe to our newsletters

- नीवक्लाउड इत्यस्य मुख्यकार्यकारिणा अधिकारिणा सह संवादः
भोपालम्, 20 फरवरीमासः (हि.स.)।मध्य-प्रदेशस्य मुख्यमंत्री डॉ मोहन-यादवः शुक्रवासरे नूतन-दिल्ली-नगरे आयोजिते इंडिया-एआई-इम्पैक्ट-समिट-२०२६ कार्यक्रमे नीवक्लाउड-प्रदर्शनी-स्थलस्य अवलोकनं कृतवान्। सः नीवक्लाउड-संस्थायाः फाउंडर-सीईओ नरेन-सेन इत्यस्मात् संस्थायाः गतिविधीनां भावि-योजनानां च विषये विस्तृत-सूचनाम् अलभत।
मुख्यमंत्रिणे डॉ यादवाय सेन महोदयेन अवगतं कृतं यत् इन्दौर-नगरे नीवक्लाउड-संस्थायाः स्थापना भारतस्य तकनीकी-आत्मनिर्भरता-सिद्ध्यर्थं कृता। संस्था स्वदेशी-एआई तथा क्लाउड-इन्फ्रास्ट्रक्चर-विकासे प्रवृत्ता अस्ति, येन देशस्य दत्तांशः देशे एव सुरक्षितः भवेत्। अद्य नीवक्लाउड-रैकबैंक-संस्थयोः सह १५० अधिकाः कुशल-प्रोफेशनल्स कार्यरताः सन्ति, ये अभियान्त्रिकी एआई क्लाउड दत्तांश-केन्द्र-सञ्चालन अनुसंधान-क्षेत्रेषु योगदानं कुर्वन्ति।
सेन महोदयेन उक्तं यत् संस्था स्वदेशी-एआई-चिप-विकासे अपि प्रवृत्ता अस्ति। अस्य उद्देश्यं विदेश-निर्भरता-क्षयः संवेदनशील-दत्तांशस्य देशे संरक्षणं रणनीतिक-प्रौद्योगिकी-क्षेत्रे भारतस्य नियन्त्रण-निश्चितीकरणं च अस्ति। अधुना पर्यन्तं ७००-कोटि-रूप्यकाणां निवेशः सुरक्षितः कृतः अस्ति, आगामि-पञ्च-वर्षेषु १०-सहस्र-कोटि-रूप्यकाणां निवेशः भारतस्य एआई-इन्फ्रास्ट्रक्चर दत्तांश-केन्द्र सेमीकण्डक्टर-प्रौद्योगिकी-विकासार्थं प्रस्तावितः अस्ति। रैकबैंक-संस्थायाः माध्यमेन ऊर्जा-कुशल उच्च-सघनता-युक्त एआई-दत्तांश-केन्द्राणि स्थाप्यन्ते, येन रोजगार-सृजनं कौशल-विकासश्च प्रवर्धते।
मुख्यमन्त्री डॉ यादवः अस्य उपक्रमस्य प्रशंसां कृत्वा अवदत् यत् आत्मनिर्भर-भारत-निर्माणे एआई क्लाउड दत्तांश-इन्फ्रास्ट्रक्चर इत्येषां महत्त्वपूर्णा भूमिका अस्ति। एतादृश-नवाचाराः देशं डिजिटल-क्षेत्रे सशक्तं आत्मनिर्भरं च कर्तुं महत्त्वपूर्णं योगदानं दास्यन्ति।
हिन्दुस्थान समाचार