Enter your Email Address to subscribe to our newsletters

भुवनेश्वरनगरम्, २० फरवरीमास: (हि.स.)। मोहनचरण: माझी शुक्रवासरे ओडिशा विधानसभायां वित्तीय-वर्षस्य २०२६–२७ कृते ₹३.१०-लक्ष-कोटि-रूप्यक-मूल्यकं वार्षिक-वित्तीय-विवरणं प्रस्तुतवान्। एतत् वित्तविवरणं गतवर्षस्य ₹२.९०-लक्ष-कोटि-रूप्यकात् अधिकः अस्ति तथा राज्यस्य आर्थिक-विस्तारं, कृषि-सुदृढीकरणं, आधारभूत-संरचना-विकासं, सांस्कृतिक-संरक्षणं च मनसि निधाय विरचितः।
सर्वकार: अग्रिम-वित्तीय-वर्षे राज्यस्य सकल-राज्य-गृह-उत्पादा: (GSDP) प्रायः ₹११-लक्ष-७-कोटि-रूप्यक-मूल्यकं भविष्यति इति अनुमानितं कृत्वा १२-प्रतिशतं विकास-दरस्य लक्ष्यं निश्चितम्।
राजस्व-प्राप्तिः ₹२,४८,५००-कोटि-रूप्यक-मूल्यं अनुमानितम् अस्ति, यत् २०२५–२६ वर्षस्य संशोधित-₹२,३१,०००-कोटि-रूप्यकात् अधिका अस्ति। अत्र कर-राजस्वं ₹१,३७,४६०.४६-कोटि-रूप्यकं तथा अकर-राजस्वं ₹१,११,०३९.५४-कोटि-रूप्यकं समाविष्टम्। पूँजीगत-प्राप्तिः ₹४८,५००-कोटि-रूप्यक-मूल्यं अनुमानितम्, यस्यां बहुला राशि: ऋणरूपेण प्राप्यते।
राजस्व-व्ययः ₹२,१५,५००-कोटि-रूप्यकं तथा पूँजीगत-व्ययः ₹९४,५००-कोटि-रूप्यकम् प्रस्तावितम्। एतेषु ₹७२,१००-कोटि-रूप्यकं मार्ग-निर्माणे, सिंचने, औद्योगिक-परियोजनासु इत्यादिभि: सहितेषु विविधेषु आधारभूत-संरचना-कार्येषु निवेश्यते। वित्तविवरणे ₹३३,०००-कोटि-रूप्यकस्य राजस्व-अधिशेषस्य तथा ₹३८,८००-कोटि-रूप्यकस्य राजकोषीय-हानि: अनुमानिता।
कृषि-क्षेत्रस्य सुदृढीकरणाय मयूरभञ्जे कृषि-महाविद्यालयाय ₹२०-कोटि-रूप्यकाणि विनियोजितानि। अपि च चिपिलिमायां पशु-चिकित्सा-विज्ञान-महाविद्यालयः, बलांगीरे कृषि-महाविद्यालयः, सोनपुरे मत्स्य-विज्ञान-महाविद्यालयश्च स्थाप्यन्ते—एतेषां कृते ₹३०-कोटि-रूप्यकाणि व्यय्यन्ते।
बहूद्देश्यीय-कृषि-सहकारी-समितीनां व्यवसाय-विविधीकरणाय ₹१५-कोटि-रूप्यकाणि तथा धान-क्रयणाय कृषकाणां समये प्राप्ति-निश्चयार्थं ₹५,०००-कोटि-रूप्यक-मूल्ययुक्त: रिवॉल्विङ्-निधिः निर्धारितः। मुख्यमन्त्री-कृषक-योजनायै ₹२,०३०-कोटि-रूप्यकाणि तथा श्री-अन्न-अभियानाय ₹४००-कोटि-रूप्यकाणि आवंटितानि। महानदी-रिवरफ्रण्ट-विकास-योजनायै ₹८०-कोटि-रूप्यकाणि निर्धारितानि।मत्स्य-एवं-पशु-संसाधन-विकास-विभागाय ब्लू-इकोनॉमी प्रयत्ने ₹२,०१९-कोटि-रूप्यकाणि दत्तानि; बाढ़-प्रबन्धनाय ₹५३०-कोटि-रूप्यकाणि च विनियोजितानि।
श्री जगन्नाथमन्दिरे, पुरीेनगरे दान-व्यवस्था-सुगमतार्थं डिजिटल-हुंडी-प्रणाली प्रवर्त्यते। ₹१,०००-कोटि-रूप्यक-व्ययेन जगन्नाथ-संग्रहालय-ग्रन्थालय-केन्द्रं स्थाप्यते। रत्न-भण्डार-गणनायाम् अङ्क-परीक्षणे च ₹५-कोटि-रूप्यकाणि व्यय्यन्ते; अपि च चिलिकाद्रुम-पुनरुद्धार-परियोजना आरभ्यते। बारिपदायां मयूरभञ्ज-छऊ-अकादम्यै ₹१०-कोटि-रूप्यकाणि विनियोजितानि।
रेल-विस्तार-योजनायां नमो-एक्सप्रेस पारलाखेमुण्डीतः अम्बाभोनां योजयिष्यति, तथा अटल-एक्सप्रेस मोटूतः तिरिङ्गं संयोजयिष्यति। भुवनेश्वरे जन-आश्रय-भवनं, नूतन-विधानसभा-भवनं, नूतन-सचिवालय-भवनं, विश्वस्तरीय-संग्रहालयः, ओडिशा-मण्डप-कन्वेन्शन-केन्द्रं च—एतानि पञ्च नूतन-भवनानि निर्मास्यन्ते।वीबी-जी रामजी-योजनायै ₹५,५७५-कोटि-रूप्यकाणि तथा समृद्ध-आङ्गनवाडी-योजनायै ₹६३५-कोटि-रूप्यकाणि विनियोजितानि। १०० आदर्श-मण्डीनां विकासाय ₹१००-कोटि-रूप्यकाणि तथा स्मार्ट-सिटी-अभियानान्तर्गतं ₹१००-कोटि-रूप्यकाणि आवंटितानि। विश्वस्य बृहत्तम-अन्न-भण्डारण-केन्द्र-स्थापनाय ₹२४०-कोटि-रूप्यकाणि तथा दूरस्थ-प्रदेशेषु सम्पर्क-संशोधनाय ₹१,०००-कोटि-रूप्यकाणि निर्धारितानि। पुरी-नगरे जगन्नाथ-इण्टरप्रिटेशन-केन्द्राय ₹१०-कोटि-रूप्यकाणि दत्तानि।
राज्य-एआई-अभियानाय ₹२३-कोटि-रूप्यकाणि, पर्यटन-भूमि-धनागार-योजनायै ₹१५०-कोटि-रूप्यकाणि, फिट-ओडिशा-अभियानस्य कृते ₹१०-कोटि-रूप्यकाणि च स्वीकृतानि।
हिन्दुस्थान समाचार / अंशु गुप्ता