Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २० फरवरीमासः (हि.स.)। देशस्य राजधान्यां दिल्ली-नगरे प्रवर्तमानस्य एआइ-शिखर-सम्मेलनस्य समये युवा-काङ्ग्रेस-कार्यकर्तृभिः कृतस्य विरोध-प्रदर्शनस्य विषये सर्वत्र निन्दा प्रचलिता अस्ति। तस्य मध्ये काङ्ग्रेस-पक्षस्य पत्रकार-विभागस्य अध्यक्षः पवन: खेडा तस्य समर्थनं कुर्वन् अवदत्— “प्रदर्शनं तत्रैव भवति, यत्र जनैः दृश्यते।”
खेडा सामाजिक-सञ्चार-माध्यमे ‘एक्स’ इति मञ्चे शुक्रवासरे सायं एकां दृश्य-पट्टिकां (वीडियो) सहभागं कृत्वा अलिखत् यत् युवा-काङ्ग्रेस-कार्यकर्तृभिः देशस्य यूनां रोषः तथा असन्तोषः शान्तिपूर्ण-रीत्या एआइ-शिखर-सम्मेलने अभिलेखितः। तदनन्तरं माध्यमेषु अन्यत्र च कोलाहलः अभवत् यत् अनुचिते स्थले प्रदर्शनं कृतम्, येन देशस्य छविः क्षतिग्रस्ता इति।
खेडा अवदत्— “अन्ततः प्रदर्शनं कुत्र कर्तव्यम्? किं भूमिगत-स्थाने?” प्रदर्शनं तत्रैव भवति, यत्र जनाः सन्ति तथा पत्रकाराणां चित्रकर्षकाणि दृश्यन्ते। यदि वयं संसद्-भवने वदाम: तर्हि अस्माकं नेता-प्रतिपक्षः राहुलगांधी देशस्य महत्तमं संकटम् इति घोषित: भवति, अस्माकं सांसदाः बहिः निष्कास्यन्ते, अस्मान् च राष्ट्रविरोधिनः इति कथ्यन्ते।
सः अवदत् यत् यदि सर्वकारः कंचन स्थानं निश्चितं करिष्यति, तर्हि वयं तत्रैव प्रदर्शनं करिष्यामः। अद्य युवा-काङ्ग्रेस-कार्यकर्तृभिः सर्वकारं सत्यं दर्शयितुं प्रयासः कृतः इति अपि खेडा उक्तवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता