प्रधानमन्त्री मिजोरम-अरुणाचलप्रदेशयो: स्थापनादिवसे शुभकामनाः प्रेषितवान्
नवदिल्ली, २० फरवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी मिजोरम-अरुणाचलप्रदेशयो: स्थापना-दिवसे उभयो: राज्ययोः जनेभ्य: शुभकामनाः प्रेषितवान्। सः शुक्रवासरे सामाजिक–माध्यम–मंचे ‘एक्स’ इत्यस्मिन् उभयोः राज्ययोः सांस्कृतिक–परम्पराम्, प्राकृतिक–सौन्दर
प्रधानमंत्री नरेन्द्र मोदी


नवदिल्ली, २० फरवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी मिजोरम-अरुणाचलप्रदेशयो: स्थापना-दिवसे उभयो: राज्ययोः जनेभ्य: शुभकामनाः प्रेषितवान्। सः शुक्रवासरे सामाजिक–माध्यम–मंचे ‘एक्स’ इत्यस्मिन् उभयोः राज्ययोः सांस्कृतिक–परम्पराम्, प्राकृतिक–सौन्दर्यं नागरिकाणां योगदानं च प्रशंसितवान्।

स्वसंदेशे प्रधानमन्त्री मिजोरम-जनान् अभिनन्द्य उवाच – मिजोरमप्रदेश: स्वस्य अद्भुत–प्राकृतिक–सौन्दर्यस्य समृद्ध–सांस्कृतिक–परंपराणां च कारणेन व्याप्तरूपेण प्रसिद्धम् अस्ति। अत्रत्या बलवती समुदाय–भावना विनम्रजनाः च दया–करुणाया: मूल्यानां प्रतीकत्वेन सन्ति। सः उक्तवान् – मिजो–परम्परा, या परंपराया: सङ्गीतस्य दैनन्दिनजीवनस्य च विभिन्नाङ्गेषु प्रकाशते, या अत्यन्तं प्रेरणादायिका अस्ति।

प्रधानमन्त्री कामितवान् यत् मिजोरम्प्रदेश: विकास–मार्गे निरन्तरं अग्रे वर्धेत् तथा अग्रिमवर्षेषु नवीनान् उपलब्धान् प्राप्नुयात्।

ततः सः अरुणाचलप्रदेशस्य स्थापनादिवसे राज्यवासिभ्य: अपि शुभकामनाः प्रेषितवान्। सः उक्तवान् – भव्य–प्राकृतिक–दृश्यैः अद्वितीय–सांस्कृतिक–विविधता–सम्पन्नः अरुणाचलप्रदेशः परंपराया: प्रकृतेश्च सामञ्जस्यस्य उत्कृष्टं उदाहरणम् अस्ति। राज्यस्य उर्जावन्त: परिश्रमिण: च नागरिकाः राष्ट्रस्य प्रगतिं दृढीकर्तुं महत्वपूर्णं योगदानं कुर्वन्ति। सः उक्तवान् – राज्यस्य विविध–जनजातीय–संस्कृतिः राष्ट्रं अधिकं समृद्धं करोति।

प्रधानमन्त्री आशां व्यक्तवान् यत् अरुणाचलप्रदेशः अग्रिमे काले विकासस्य नवीन–उच्चतमं स्पर्क्ष्यति तथा राष्ट्रस्य प्रगतौ निरन्तरं योगदानं दास्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता