Enter your Email Address to subscribe to our newsletters

धमतरीनगरम्, २० फरवरीमासः (हि.स.)। महिला–बाल–विकास–विभागेन सम्बन्धित–विभागैः सह संयुक्त–तत्त्वावधानेन अवैध–व्यापार–निरोधन–अधिनियमस्य (१९५६) प्रावधानानां अन्तर्गतं महिलानां बालानां च तस्करी–निरोधनं संरक्षणं च उद्दिश्य लाइवलीहुड–महाविद्यालय–परिसरे शुक्रवासरे एकदिवसीय–कार्यशाला आयोजिता। अस्यां कार्यशालायां विभिन्न–विभागानां अधिकारिणः कर्मकराश्च सहभागितां कृतवन्तः।
प्रथम–सत्रे जनपद–विधिक–सेवा–प्राधिकरणस्य प्रतिनिधिना अनैतिक–व्यापार–(निरोधन)–अधिनियमः १९५६, भारतीय–दण्ड–संहितायाः सम्बन्धित–धाराः, तथा बाल–संरक्षण–नियमानां विषये विस्तृतः परिचयः प्रदत्तः। बाल–श्रमः, बन्धुआ–मजदूरी, मानव–तस्करी–सम्बद्ध–अपराधाः, तेषां न्याय–प्रावधानानि तथा आरक्षक–भूमिका च विशेषतया प्रकाशिता।
द्वितीय–सत्रे अन्तर्जाल–अपराधानां विषये विशेष–चर्चा अभवत्। आरक्षक–अधीक्षकः सूरज–सिंह–परिहारः अवदत् यत् अपराधिनः अन्तर्जाल–मञ्चानां तथा अन्तर्जाल–माध्यमानां द्वारा कथं जनान् स्वजाले पातयन्ति।
अन्तर्जाल-वंचन–निरोधनम्, सुरक्षित–अन्तर्जाल–आचरणम्, तथा सहायता–संख्या १९३० इत्यस्य माध्यमेन शीघ्र–सूचना–पञ्जीकरण–प्रक्रिया अपि अवबोधिता।
ततः परं बालकानां लैङ्गिक–अपराधेभ्यः संरक्षण–अधिनियमस्य (२०१२) प्रावधानानि, आरक्षक–कर्तव्यानि, बाल–कल्याण–समित्याः भूमिका च विस्तारेण निरूपिता। कार्यस्थले महिलानां लैङ्गिक–उत्पीडन–(निरोधन, प्रतिषेध एवं निवारण)–अधिनियमस्य (२०१३) अन्तर्गतं आन्तरिक–सूचना–समितेः गठन–कार्यप्रणालीविषये मार्गदर्शनं प्रदत्तम्। शासनद्वारा सञ्चालिते ‘शी–बॉक्स–पटल’ विषये अपि सूचना सहभागी कृता।
कार्यक्रमे उपजनपदाधिकारी कल्पना–ध्रुवः, कार्यक्रम–अधिकारी जगरानी–एक्का, तथा आरक्षक–विभागस्य महिला–बाल–विकास–विभागस्य च अधिकारिणः कर्मकराश्च उपस्थिताः आसन्। समापनावसरे अधिकारिभिः समाजे जागरूकतां वर्धनाय तथा महिलानां बालानां च सुरक्षा–निश्चयनाय सक्रिय–भूमिकां निर्वहणाय प्रतिभागिनः आह्वानं कृतवन्त:।
हिन्दुस्थान समाचार / अंशु गुप्ता