Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, २० फरवरीमासः (हि.स.)। अखिलभारतीय-वनवासी-कल्याण-आश्रमेन संबद्धः पूर्वाचल-कल्याण-आश्रमः आगामी रविवासरे, २२ फरवरीमासे प्रातः १०:३० वादने कला–मन्दिर–प्रेक्षागृह–स्थले ४३तमं वार्षिकोत्सवं आयोजयिष्यति। एषः आयोजनः कोलकाता–हावड़ा-महानगर–इकाई–तत्त्वावधाने सम्पन्नः भविष्यति।
आश्रमः विगतेभ्य: ७३ वर्षेभ्य: (१९५२–२०२५) यावत् जनजाति (वनवासी) समाजस्य शिक्षा–चिकित्सा–स्वावलम्बनं च श्रद्धा–जागरणेन सर्वाङ्गीण–विकासाय कर्मणः प्रवृत्तः अस्ति। संस्थायाः लक्ष्यं जनजाति–समाजं राष्ट्रस्य मुख्यविकास–धारया संयोजयितुं तथा सामाजिक–सशक्तिकरणं संवर्धयितुं च अस्ति।
कार्यक्रमस्य अध्यक्षतां प्रख्यातः उद्योगपति: तथा हरियाणा-इंटरनेशनल–विद्यालयस्य अध्यक्षः प्रमोद–गुप्ता करिष्यति। मुख्य–अतिथेः रूपे विश्व–हिन्दू–परिषद: केन्द्रीय–कोषाध्यक्षः सुप्रसिद्धः नेत्र–चिकित्सकः डॉ. श्याम–अग्रवाल: उपस्थित: भविष्यति। मुख्य–वक्तारूपेण सुप्रसिद्धः चलचित्र–निर्देशकः लेखकः च अभिनेता डॉ. चन्द्रप्रकाश–द्विवेदी (चाणक्य) स्वविचारान् प्रकटयिष्यति।
कार्यक्रमस्य द्वितीयसत्रे खाटू–नरेश–बाबा–श्यामस्य कथायां आधारिताया: सांस्कृतिक–प्रस्तुते: “हारे का सहारा – बर्बरीक श्याम हमारा” मंचनं भविष्यति। अस्य सांस्कृतिक–कार्यक्रमस्य निर्देशनं सुप्रसिद्ध–सांस्कृतिक–संस्था ‘मधुर्या’ इत्यस्य पुष्पा–अग्रवाल करिष्यति।
आयोजकैः नागरिकेभ्यः कार्यक्रमे अधिकाधिक–संख्यायां उपस्थाय जनजाति–समाजस्य उत्थानाय प्रवृत्तान् प्रयत्नान् प्रोत्साहनाय आह्वानं कृतम्।
हिन्दुस्थान समाचार / अंशु गुप्ता